पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परच्छेदः निर्गुणत्वम् १७१ साध्यसाधनभावे प्रामाण्याभावप्रसङ्गः । पृथिवी निर्गन्धा, द्रव्यत्वात्, जलादिवत् इत्याभासतुल्यत्वं विवेकिनां सुस्पष्टम् । अत एव बांधोऽप्यत्र दोषः । वाक्येतरप्रमाणत्वमुपाविश्च । अत्र साध्यमन्यथा परिष्कुर्वन् निर्विकल्पकमादाय दृष्टान्ते साध्यवत्तां वदंश्च तत्र भवान् ब्रह्मानन्द- स्वामी चित्सुखीयमनुमानं यथावन्न जग्राहेति सुज्ञानं विदुपाम् । वादमार्गप्रचण्डोऽस्तु पण्डिताखण्डलोऽस्त्वपि । अखण्डमर्थं वाक्यम्य न मण्डयितुमीश्वरः || २. निर्गुणत्वम् । को गुणस्तस्य वाचि स्याद् यो ब्रूते ब्रह्म निर्गुणम् । कथन्नू ब्रह्मवेदित्वमवेद्यत्रह्मवादिनः ॥ इदमपरं ब्रह्मविदां कर्णारुन्तुदं भाषन्ते यद् ब्रह्म निर्गु मिति । तत्र यदुच्यते “कैवल्यश्रुत्या तावदात्मा निर्गुण : " इति तन्न । तस्या निविं- शेषत्वबोधऋत्वाभावात् । , एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताबिवासः साक्षी चेता केवलो निर्गुणश्च ॥ इत्ययं हि स मन्त्रः । इतः पूर्वे परे च मन्त्राः ब्रह्मणो विविधान् मान् गुणान् वर्णयन्ति । तेषु उदाहृतात् कैवल्यमन्त्रात् पूर्वमन्त्रः कारणरहितं कारणं अधिपतिं सर्वाधिपं च ब्रह्म प्रतिपादयति । स ईश्वर: प्रधानोपादानकैः स्वसृष्टैर्वस्तुभिः स्वमावृोति स्वकीयं जीववर्गं लुमप्रज्ञं करोति, यद्वा तैः स्वरूपमावृत्य तिष्ठनीत्यनन्तरमन्त्रे उच्यते । इममर्थं विवरीतुं प्रवृत्तः प्रकृतः कैवल्यमन्त्रः। एक, समेन वाऽधिकेन वा द्वितीयेन रहितः । देवः, जगत्सृष्ट्या-