पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ विशिष्टाद्वैतसिद्धिः द्वितीयः दिभिः क्रीडन् परमपुरुषः । सर्वभूतेषु देवमनुष्यतिर्यक् स्थावरात्मक- विविधशरीरवत्सु सर्वेषु प्राणिपु | गूढः अन्तः प्रविश्य तेषां दुर्जेयतया स्थितः । स कुत्र वर्तत इत्यत्रोक्तं सर्वभूतेष्वति । कस्मान्न दृश्यन इत्यत्रोक्तं ‘गूढः' इति । कथमेकस्य सर्वभूतान्तर्वार्तव मत्यत्राह- सर्व व्यापीति | विभुत्वान् तस्य तदुपपन्न मिति भावः । किमर्थं तस्य सर्व- भूतान्तःप्रवेश इति शङ्कापरिहारायाह - सर्वभूतान्तरात्मेति । आत्मा नियन्ता | नियमनं कर्तुमन्तःप्रवेश इत्युक्तं भवति । किं तन्नियमन मिति चेनू नद् विवृति - कर्माध्यक्ष इति । प्रवृत्तिनिवृत्तिरूपाणि सर्वाणि कर्माणि 'दैवं चैवात्र पञ्चमं' इत्युक्तरीत्या तदवीनानीति भावः । एवं नियमनार्थमन्तरवस्थित्या भूतानि परमात्मनो धारकारिण, स तु धाय इति बुद्धिर्भवेत् । तां व्यावर्तयति - सर्वभूनाविवास इति । सर्वाणि भूतानि तर्भाधवसन्ति । तेन त्रिचन्ते । न तु स एतैः । गीतं च ‘न-त्वहुं तेषु ते मयि' इति । यदि शरीरान्तरवस्थितः तहि जीववत् भोक्ता स्यात् । न । स हि केवलं साक्षी, साक्षाद् द्रष्टा । तत्रत्यां जीव एव भोक्ता । अयं तु तत्र स्थितः तत्र यद्यद् भवति तत् केवलं पश्यति, न तु किमपि भुङ्के। ‘अन- इनन्' इति ह्यन्यत्रोक्तम् । शरारान्तर्वर्तित्व उभयोरवि शष्टे कथमेकस्य भोगः, नेतरस्य | उच्यते । चेता | चिञ् चयने । निर्माता, सर्वकारण- भूतः सर्वज्ञः। चेतयिता वा नित्यासङ्कुचितज्ञानः | अज्ञत्वज्जीवस्य भांगः सर्वज्ञत्वादितरस्य नेति । अयमपि विशेषः कुतः ? यदयं केवळ: न तु जीबवद् विहितनिषिद्ध कर्म कतृत्वतरकलभूतपुण्यपापविशिष्टः ततः। जीवस्य एवम्भाव हेतुश्च अनादिकालप्रवृत्तगुणसम्बन्धः । यद् गीयते - 'कारणं गुणसङ्गोऽस्य सद्सचोनिजन्मसु '