परिच्छेदः निर्गुणत्वम् १७३ - इति । एतदत्यन्ताभाववान् पुनरीश्वरः । इदमुच्यने मन्त्रान्ते - निर्गुणश्चेति । यतो जीवस्य तत्तत्कर्म कर्तृत्वं तत्फलभूतपुरण्यपापे, एतत्कृतदेहसम्बन्धः, अज्ञत्वं, सुखदुःखोपभोगश्च तादृश सत्त्वरजस्तमो रूपप्रकृतिगुणसम्बन्धरहित ईश्वरः । अतः तेन सह वर्तमानस्यापि सर्वज्ञ- त्वाद्यात्मकस्वस्वभावविशिष्टतयैव वर्तमानत्वान्नास्य जीववद्भोगप्रसङ्गः । अथ प्राकृतगुण सम्बन्धः कुतो जीवस्येवास्य न भवति । अत्रोत्तर- मनन्तरमन्त्रेणोचते- एको वशी निष्क्रियाणां बहूना- मेकं बीजं बहुधा यः करोति । इति । एकः स्वेतरसमस्तवस्तुविलक्षणः सः वशी स्वाधीनस्वेतरस- मस्तवस्तुकः । प्रकृतिश्च तस्य वशे वर्तते । तत्लङ्कवायत्त सर्वपरिणामा | सर्वस्वतन्त्रः सर्वशक्तः सर्वज्ञः सः संहारलीच्या चेतनाचेतनात्मकं सर्वं जगत् नामरूपानर्हसुसूचमावस्थं करोति । तदानीं अनन्ता जीवात्मानः करणकलेबररहिततया अचेतनवदेव निष्क्रिया भन्ति । अथ सः अनु- कम्पार्द्रहृदयः सङ्कल्पिते प्रलयकाले वृत्ते पुनर्जीवेभ्यः क्रियाकरणोचित- करणकलेबरादिदित्सया तद्बीजभूतं प्रकृतिसंज्ञं जडवस्तु महदहङ्कारा- दिक्रमेण बहुधा करोति । एवं सकलभुवनसृष्टिस्थितिसंहारनियमना- दिरूपलीलारसिकेन सर्वेश्वरेण उपकरणीकृता त्रिगुणात्मिा प्रकृतिः स्वस्वरूपस्थिति प्रवृत्तिषु तस्यात्यन्तपरतन्त्रा सती तस्य बन्धाय भवेदिति मनसा चिन्तयितुमपि न शक्यमित्युक्तं भवति । तदेवमस्मिन प्रकरणे परस्य ब्रह्मणः कारणान्तररहित कारणत्वं, अधिपत्यन्तररहित सर्वाधिपतित्वं, स्त्रेतरसमस्त वस्तुविलक्षणत्वपर्यव- साथि एकत्वं, जगत्सृष्टि चादिलीलारासि म्यपर्यवलितं देवत्वं, सर्वभूत- गूढर्वातत्वं, सर्वव्यापित्वं, सर्वान्तरात्मत्त्रं, प्रेरत्रत्वं सर्वाधारत्वं, साक्षा- दुद्रष्टत्वं, नित्यरूर्वज्ञत्वं त्वं सत्त्वादिप्राकृतगुरण सम्बन्ध-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति