पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 12 )

बलेन स्थाएँ पुरुषे च पृथक् निश्चिते दोषवशान् कचित् स्थाएँ पुरुषत्वं वा पुरुषे स्थाणुत्वं वा अध्यस्यते । एवमध्यस्तं पुरुषत्वं वा स्थाणुत्वं वाऽनृतं भवति । न तु स्थाणुर्वा तवृत्ति स्थाणुत्वं वा पुरुष वा पुरुषत्व वा तद्वति । निश्चितप्रमाणभावस्वस्वप्रतीति सिद्धत्वात् । एवमेव आत्मा च अनात्म च विरुद्धस्वभावौ स्वस्त्र प्रमाणबलात् पृथक् सिद्धौ । अथापि अविवेकिनां तयोः पृथस्थित्य- नहंतापादकेन संसर्गविशेषेण अन्योन्यात्मकत्वध्यासो भवति । तत्र अध्यस्तस्य आत्मत्यस्य अनात्मत्वस्य च वधादनृतत्वेऽपि धर्मिणोरात्मा नात्मनोर्वा तत्र विद्यमानयोरात्मत्वनात्मत्वधर्मयोंवा अनृतत्वं कथमपि न भवति । यथा अहमर्थ आत्मा तथैव तद्वत्तिज्ञानादिकं च, शरीरादिर नात्मा तवृत्तिगुणक्रियादिकं च पारमार्थिकमेव । अन्यथात्वे प्रमाण भावान्. । तथात्वे प्रमाणसत्वाच्च ।

अध्यासः अविद्यमानस्य आरोपः । स्थाण पुरुषात्मकत्वं नास्ति । तत् तत्र आरोप्यते अयं पुरुष इति । अस्य अध्यासस्य अविद्यात्वव्य पदेशः विद्याविरोधित्वान् । आरोपितस्य यस्सुनः वस्तुतोऽधिष्ठाने अवि- द्यमानत्वात् तत्र गुणाधायकत्वं वा दोषाधायकत्वं वा नास्तीति तस्य युक्तमिदमुक्तम् । परन्तु किमर्थमिदमुक्तमिति चिन्तनीयम् । तत् पर स्यात् । यत्तु

तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमा णप्रमेयव्यवहाराः लौकिका वैदिकाश्च प्रवृत्ताः । सवणे च शास्त्राणि विधिप्रतिषेधमोक्षपराणि ।

इति तन्न । प्रमाणप्रमेयव्यवहारेषु आत्मानात्मनोरितरेतराध्यासस्य 'पुर ६करणीयत्वाभावात् । सत्यशुक्तिसत्यरजतरूपप्रमेयतप्रमाणव्यवहारे यथा शुक्तिरजताध्यासोऽन्यो वा कश्चिदध्यासो न पुरस्करणीयः तथा । कामं पुरुषस्य देहात्मभ्रमोऽतु । ततः किं नाम देहात्मनोः स्वस्वकार्य-