परिच्छेदः निगुत्वम् १७५ धर्मवत्तया इतरवृत्तिधर्मरहिततया च । तत्र आद्यराशिप्रविष्टं कारणत्वा- दिकम । द्वितीयराशिप्रविष्ट केवलत्वं निर्गुणत्वं ईदृशमन्यच्च | अतः परस्य ब्रह्मरणां धर्म सामान्यशून्यत्वबोधकं एकमपि प्रमाणवाक्यं नास्तीति निश्चलमिदं तत्त्वम् । किञ्च निर्गुण इत्यस्य निषेधस्य शास्त्रोपदिष्टगुण, वित्रयत्वं दुर्वचम् | शास्त्रातान् गुणान् अनू हि इमे ब्रह्मरिण न सन्तीति निषेधः कार्यः । इदं निर्गुणपदेन एकेन दुष्करम् । एकप्रसरताभङ्गप्रसङ्गात् । अतो ‘वषट्कर्तुः प्रश्रमभक्षः' इत्यत्र यथा वषट्कतुर्यो भक्षः स प्रथम इति विधानासम्भवात् प्राथम्यविशिष्ट भज्ञान्तरस्यैव विधानमिष्यते तथैवात्र ये गुणाः पूर्वमुपदिष्टास्ते इह न सन्तीति निर्गुण इत्येकेन पदेन बांधना - सम्भवात् गुणान्तरप्रतियोगिकत्वविशिष्ट एव प्रतिषेधः क्रियत इति वाच्यम् | कानि तानि गुणान्तराणीत्यन्वेषणे प्रकरणादिपर्यालोचनया तद्वधारणं भवतीति ज्ञयम् । ननु सामान्यबाचिगुणपदे श्रूयमारो कथं गुणान्तरग्रहणं युज्यत इति चेन्न | स्ववाक्ये स्वेनैव साकं विधोयमानानां गुणाना मद्याप्यप्रातत्वेन निर्गु णत्वचटक गुणत्वेन तेषां ग्रहणासम्भवात् तद्भिन्न गुणग्रहणावश्यम्भा- वात् । प्रकरणान्तरवाक्वान्तर विहितानामपि ब्रह्मगुणानां एतद्वाक्यस्थ- गुणवदेव ब्रह्मवैतक्षण्यप्रतिपत्त्यर्थतया निषेवायोगात् । अनाकाङ्क्षित- त्वाच्च । साक्षी चेता केवलो निर्गुणश्चेतीमान हि पदानि सर्वभूतान्तर- बँतिष्ठमानस्यापि परस्य ब्रह्मणां जीववत् सुखदुःखभोक्तृत्वं नास्तीत्येतदर्थ- प्रतिपादकानीत्यदर्शयाम । तेन प्राकृतगुणनिषेध एवात्रापेक्षितः । न तु शास्त्रोपदिष्टापूर्वपरत्रावैलक्षण्याणद कसर्वज्ञत्वसत्यकामत्वसत्य सङ्कल्प- त्वेदिकल्याणगुणगणप्रतिषेधः । तस्मादयं निर्गुणपघटको गुणशब्दः 'गुणान्वयः' इति पूर्वाध्यायस्थगुणशब्द इव सत्त्वादिप्राकृतगुणवाचक एव । विशिष्य “चैगुण्यवर्जितम्" इति श्रवणात् "विना हेयैगु गादिभिः"
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति