पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ द्वितीय इत्युपबृह्मण।च्च तत्परतैव युक्ता । यत्तु 'नेति नेति' इति वी साबलेन प्रसक्तसर्वप्रतिषेधे प्रतीते कतिपय- विशेष परिशेषस्य ऋतु मशक्यत्वादिति, तन्न । त्यपरिज्ञानात् । इति न, एवं न; पूर्वं यावद्विशेषविशिष्टमुक्तं, तावन्मात्रं ब्रह्म न भवति । अपि तु ततोऽप्यधिकापरिमित्त विशेष विशिष्टमित्यर्थः । वीप्साऽऽदरातिशये । तथा च सूत्रं “प्रकृतैतावत्त्वं हि प्रतिषेर्धात" इति । प्रॠतैः पूर्वोक्तैः विशेषैः एतावत्त्वं एताबमात्रविभूतिमत्त्वं यद् ब्रह्मणः प्रसक्तं, तत् प्रति- षेधत्तीयं श्रुतिरित्यर्थः। यत्त्वत्र परकीयं भाष्यं प्रकृतं मूर्नामूर्तरूपं प्रपश्चं प्रतिषेधतीति तत् एतावत्त्वं प्रतिषेधतीति सूत्राक्षराननुगुणम् । तथा च सर्व प्रकार प्रतिषेवर मावेन तद्विरोधःप्रसक्तेः निगु त्वमिति सामान्यं त्रैगुण्यवर्जित मिति विशेषे उपसंहृतं भवति । 7 यत्तु एवं सति न हिंस्यादित्यस्य ब्राह्मणो न हन्तव्य इत्यत्र उपसंहारः स्यादिति, तत्र वदामः | स्यादेव न्यायतः । विपीलिकादेरारभ्य तत्तज्जन्तु ज्ञातवधे पृथक् पृथक् प्रायश्चित्तविधानात्तु निषेधः सर्वाणि विषय इत्यवधार्यते। विशिष्य ब्राह्मणहिंसानिषेधस्तु आयवधप्रतिषेधवत् पापातशयस्य तदनुरूपप्रायश्चित्त विशेषस्य च ज्ञापनार्थः । अतो नात्रोप- संहारः । प्रकृते तु निराबाब उपस हारः । निर्गु रूपरता च शब्दस्य न सम्भवतीति पूर्वमेवोक्तम् । न हि निर्विशेषं किमपि बुद्धादारोपयितुं शक्यते । आकाशशब्दात् तदर्थनिर्विकल्पकं वदन्तो ऽपि हि शब्दगुण- कत्वेन तत्प्रतीतिं वदन्ति | गङ्गापदे तीरत्वमात्रेण तीरे लक्षणां वदता- मपि तीरत्वेन तीरात्रगाहित्वात् सप्रकारक एव तीरबोधः । वस्तुतस्तु तीरे घोष इत्येतावन्मात्रप्रतीत्या आकांक्षानुपरमात् गङ्गातीरत्वेन बोध आवश्यक इत्यवोचाम । तथैव चन्द्रादिस्वरूपस्य केवलस्य निराकांक्ष- प्रतीत्ययोगा दखण्डार्थता न सम्भवतीति च । अतो निर्विशेषस्य प्रति- पत्त मशक्यत्वादपि न गुणसामान्यशून्यपरोऽयं निर्गुणशब्दः । विशिष्टाद्वैतसिद्धिः