पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैत सिद्धिः कारणम् । नान्यार्थत्वमनन्यार्थत्वं वा ।” इत्युपक्रम्य द्वितीयः “प्रतीतिशरणैर्विद्यमानवाद आश्रयणीयो न गुणवादः । एतेन मन्त्रो व्याख्यातः ।” इत्यन्तेन ग्रन्थेन । किञ्च निर्गुणश्रुतिरपि परार्थैव । मोक्षार्थसाक्षात्कार- विषयप्रतिपत्त्यर्थत्वात् । न हि शाब्दमेव ब्रह्मज्ञानं पुरुषार्थः, तत्साधनं वा । तस्मिन् सत्यपि बन्धानुवृत्तेः । अतः “ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते " इति 'कारणत्वेन चाकाशादिष्विति सूत्रे भवद्भाष्योक्तरीत्या 'ब्रह्मविदा- तिम्' इति नब्रह्मविद्यावा क्यशेवत्वान्निर्गु वाक्यस्य स्वार्थे तत्रत्वं दुर्घटमेव । तस्माद् दुर्नीतिरेषा यदुपासनार्थत्वात् सगुणवाक्या- नामतत्परत्वं ततो दुर्बलत्वं चेति । यथा तु उत्पत्ति विधेः कर्मणि तात्पयें, विनियोगविधेः फलसाधनत्वे, गुणविधीनां तत्तद्गुणविशेषे, विशिष्टविधोनां शब्दतो विशेष्ये अर्थती विशेषणे, एवमत्र 'सदेव सोम्य इत्यादीनां ब्रह्मणि, 'सत्यं ज्ञानमनन्तं' 'अपहतपाप्मा सत्यकामः सत्य- सङ्कल्प:' 'साक्षी चेता केवलो निर्गुणश्य' इत्यादीनां तत्कलवाणगुणेषु, 'ब्रह्मविदाप्नोति' इत्यादीनां आयफलयोश्च तासर्यमिति अकुत्ता- त्त्विकोऽर्थोऽवगन्तव्यः। तत्र भावाभावरूपगुणविधिवाक्यानां वा पदानां वा विरोध भने सर्वेषां श्रुतित्वाविशेषात् उपक्रमप्राबल्यादिन्यायै- रेवार्थनिष्कर्षः कार्यः। तथा क्रियमाणे च निर्गुणपदं सत्त्वादिगु भवति। एवं क्लृप्तैर्न्यायैः समञ्जसेऽर्थे निश्चीयमाने निर्गुण इत्येकस्य पदस्य आपाती गर्थेऽमिनिविश्व श्रुतिस्मृतिशत सिद्धसकलभगव- ·तकल्याणगुणगणभञ्जने महता प्रासेन यदुद्युमः क्रियते, तत एव भव- दभिमतमद्वैतमबद्ध मिति ख्याप्यते ।