परिच्छेदः निगु गत्वम् त्तरम् । साक्षी चेता केवनी निर्गुणश्चेति पूर्वोकैः सर्वैर्गुणैनिर्गुणत्वस्य समुच्चयो हि प्रतीयते । गुणसामान्यशून्यत्वे एकस्मिन वाक्ये समुच्चयः कथं घटेत । न च धर्मिणि प्रकारत्वेनोपस्थितानां धर्माशं अन्यत्रान्वयः सम्भवी । न हि कुण्डली वासस्वी देवदत्ता निद्रव्य आगच्छ्रतीत्युक्ते निद्रव्य इत्यनेन धनाभाववत् कुण्डलवास लोग्प्यभावः प्रतीयते । सपुत्रः सभार्यश्चैत्री निस्तहःयो गच्छतीत्वत्र वा निस्सहायपदेन मनुष्यान्तरा- भाववत् पुत्रभार्ययोरप्यभावः | अन्याश्चानुपपत्तयः पूर्वोक्ता अनुसन्धयाः । किञ्च गुणा ब्रह्मसम्बन्धितया प्रमिता न वा । अत्ये असिद्धानां तेषां निषेधप्रतियोगितग्राऽन्वयो न घटते । प्रमितानां तेषामसञ्जातवि- रोधित्वेन प्राबल्यात् तदविरोधेन प्रतिषेचां नेयः । अत एवापच्छेदन्या- यस्यात्रानबकाशः । परस्परांनरपेक्षशास्त्र द्वर्यावषयत्वात् । उक्तं च “पूर्वात्सरबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योऽन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ।। " इति । यदुक्तं तात्त्विकत्वार्यन्तस्य सगुणश्रुत्या अविषयीकरणात्, इति तद् वैदिकेन सता वक्तुं न शक्यते । वेदवाक्यजनिताया घियः स्वतः प्रामा- ण्याभ्युपगमात् । अद्वैताभिनिवेशसन्निपातज्वरानुपहतानां तत्रातात्त्वि- वत्वकोटेः सर्वथानुन्मेषात् । यच्च 'शून्यता या अपुरुषार्थत्वात् । आनन्दा- वातिरूनमुक्तिप्रतिपादकविरोवाञ्चेति । तञ्चायुक्तम् । वेदप्रमितस्य तत्त्व- स्याभ्युपगन्तव्यत्व त् । सगुणान्निर्गुणं तत्त्वमभ्यहितमिति कुतो भवन्त तिष्ठते । वेदबोधितत्वादिति चेत् स एव चेत् न्यायसहायः शून्यं तत्त्वमवगमर्यात तदभ्यर्हिततरमिति हि प्रामाणिकैः परिग्राह्यम् । न तु पुरुषार्थ इति परित्याज्यम् । आनन्दावाप्तिरूपा मुक्तिश्च कथमद्वैति- नाम् । जीवस्तावत् स्वनाशादेव नानन्दमवाप्नोति । ब्रह्मरणश्च निर्विकार स्वादपूर्व किमपि न भवति । न चान्यः कश्चिदस्ति यो मुक्त आनन्दी १८१
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति