१८२ विशिष्ट द्वैतांसद्धिः द्वितीय भवति । तस्मादपुरुषार्थरूपमेवाद्वैतम् | तथा शून्यमपि भवितुमर्हति । अथ यत् “ज्ञानादीनां स्वरूपतया गुणत्वासिद्धेरिति”, तत्र पृच्छामः सत्यज्ञानानन्दपदानां वाच्यतावच्छेदकं किञ्चिदस्ति न वा । नान्त्यः । वाचकत्वेन घटा दिपदानामिव तस्यावश्यकत्वात् | स्वरूपमात्रवाचकत्वे पर्यायत्वस्य सर्ववस्तुस्वरूपवा वकत्वस्य चापत्तेः | आद्ये कल्पे तत् किं भावरूपं उताभावरूपम् ? नान्त्यः | प्रतीतिविरोधात् । यथा घटः गौः इत्यादिश्रवणे तत्तत्संस्थान विशिष्ट व्यक्ति विशेष|पस्थितिः तथैव हि एषामपि श्रवणे सत्यत्वज्ञानत्वानन्दत्वात्मऋस्वभावविशिष्ट वस्तु विशेष प्रती- तिर्भवति । प्रापह्नवप्रवृत्तास्तु बाह्या: अपोहमर्थमातिष्ठन्त । तदनु- सारिभिर्भवद्भिः असत्यादिव्यावृत्तिरथं उच्यते । स तु प्रतीतिविरुद्धतया नाङ्गक शक्यः । तस्मादाद्यः पक्षः परिशिष्यते । तानि च वाच्यतावच्छेदकानि सत्य. त्वज्ञानत्वानन्दुत्वानि ब्रह्मवृत्तितया तद्गुणा भवन्ति । एवमेवेक्षितृत्व- कारणत्वसत्यकामत्व सत्यसङ्कल्पत्वादयोऽपि । घण्टापथोऽयं परित्यक्तव्यो भवति अद्वैतकान्तारवासिभिर्भगवद्गुणपाटच्च रैः । प्रतीतिबलेन हि धर्म- धर्मिव्यतिरेकः सिद्धयति । घटत्वमन्यत् तद्वान् घटोऽन्य इति । अग्नि- स्वरूपमन्यत् तद्गतं दाहकत्वमन्यदिति । तद्वत् ब्रह्मणि सत्यश्वमस्ति । तेन सत्यमुच्यते । एवं ज्ञानत्वाद् ज्ञानम् | आनन्दत्वादानन्दः । एतत्सर्वं ब्रह्मस्वरूपमेवेति चेदुच्यते घटत्वादिकमपि घटादिस्वरूपमेवेति कुतो न भवति । इदमिष्टमेवेति चेत् तर्हि वादाधिकारी हीयते । लोकव्यव स्थातिलङ्घनात् । अनतिलङ्घने वा ब्रह्मविषयेऽपि धर्मधर्मभावः अत एक तद्वयतिरेकञ्चाभ्युपगन्तव्यः । स्वरूपवादच्छलेन तु न किश्चितः सेत्स्यति । यदि हि ब्रह्मरिण सत्यत्वधर्मो नास्ति तर्हि तत् तुच्छं स्यात् । अवि- शेषात् । अस्ति । तत्तु स्वरूपमेवेति चेन्न । धर्मधर्मिंभावानुपपत्तेः । न
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति