परिच्छेदः निगुत्वम् १८३ हि स्वरूपे स्वरूपं स्यात् । धर्मधमिंभावः कल्पित इति चेन्न । पुनस्तुच्छा- विशेषप्रसङ्गात् । तत्रापि कल्पितसत्त्वसम्भवात् । तत्र स्वरूपमेव नास्ति । अत्र त्वस्तीति विशेष इति चेत अनेन किमुक्तं भवतीति विमर्शनीयम् | ब्रह्मस्वरूपमस्तीति किं सत्तायोगीत्यर्थ इष्यते उतनेष्यते । आद्ये धर्मवत्त्व- मङ्गीकृतमिति सिद्धं नः समीहितम । तथा चाद्वैतं विप्रवास्यम् । अन्त्ये तुच्छाविशेषस्तदवस्थः । तस्मात्स्वरूपा तरिक्तगुणवत्त्वं ब्रह्मणोऽवर्ज- नीयम्। “अस्माकमपि ब्रह्मातिरिक्त गुण सद्भावप्रद्वेषात् | अभेदे गुणगुण- भावस्य पारिभाषिकत्वात्" इति वदता भवता वस्तुतः सत्यज्ञानादि- रूपत्वं ब्रह्मणः पारिभाषिक मेवेत्यङ्गीकृतं भवति । तथा च तुच्छतैव ब्रह्मरण इत्यास्तां तावत् । अथ यदुक्तं – “य आत्माऽपहतपाप्मा... सत्यकामः सत्यसङ्कल्प इत्यत्र अपहृतपाप्मत्वादीनां स्वरूपतया जिज्ञास्यकोटिप्रवेशेऽपि सत्य- कामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्वायोगात् तच्छब्देन तेषामपरा- मर्शात् । यश्चित्रगुर्लम्बकर्णश्च तमानयेत्यादौ योग्यविशेषणस्यैव तच्छ- ध्देन परामर्शदर्शनात् । स्वरूपत्वे तेषामध्यपरामर्शे विशेष्यांशमात्र परा- मर्शः । यश्चित्रगुबहुधनस्तमानयेत्यादिवत् ।” इति तदसत् । यदि चित्रगुत्वस्य तच्छब्देन न परामर्श: तर्हि अचित्रगुरप्यानीयेत । न चैवं सत्यादेशोऽनुष्टितो भवति । तत्कस्मात् । इदं त्वत्र तत्त्वम् | तच्छन्दपरामर्श उभयोरविशिष्टः । उभयोरपि क्यावर्तकत्वात् । पृथक्स्थितियोग्यत्यायोग्यत्वाभ्यां तु एकस्य आनयना- वस्थायामनन्वयः । अन्यस्यान्वयश्च । चित्रगोस्वामित्वस्यैव पद्गम्यत्वात् तस्यापि तदानीमन्वयोऽस्त्येव । परंतु अयमन्वयो वाऽनन्वयां वा न तात्पर्यविषयः। आनेयोपलक्षणत्वेन तात्सर्यविषयत्वं तूभयोविशिष्टम् । अवर्जनीयत्वात् कर्णस्यान्वयः | वर्जनीयत्त्वात्तु गवामनन्वयः । यत्र तु एवं निश्चायकं किमपि नास्ति तत्र संशयो भवति । यथा यः पुत्रवान
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति