( 13 )
करणप्रवृत्तेर्भविष्यति । आत्मनो हि नियन्तुः स्वशरीरमिन्द्रियणि च विधेयानि । स यथेच्छति । प्रवर्तन्ते । तदिच्छया चक्षुरुन्मीलति । तथा स्वयोग्यं विषयं गृह्वाति । प्रमा जायते । एतदनुकूलयतनवत्त्वात् आश्न- यत्वाच्च आत्मा प्रमाता भवति । अत्र देहात्मनोरितरेतराध्यासस्य कोप योगः । ननु निस्सङ्गः आत्मा । स कथं देहेन्द्रियप्रयोक्ता भवेदिति चेत् स कथमध्यासे कर्ता भवति । न स कर्ता अध्यासे, इति चेन् कस्तर्हि ? देहेन्द्रियादि हि जडम् । न चान्यः कश्चिदस्ति योऽध्यस्येत् । तस्मा द्यस्य अध्यासे कर्तृत्वं सम्भवति तस्य तथैव प्रमिता अपि तत् सम्भव तीति नाध्याससापेक्षत्वं प्रमातृत्वस्य । प्रत्युत प्रमातृत्वपुरस्कारेणैव अध्यासो भवतीति वक्तव्यम् । यो हि प्रमाता स एव कदाचित् इन्द्रिय- गतेन बिषयगतेन वा दषेण अन्यदन्यस्मिन् अध्यस्यति । अध्यास- कालेऽपि धमिंविषये स प्रमातैव । यथाऽऽहुः “सर्वं ज्ञानं धर्मिण्य- भ्रान्तम्” इति ।
पश्वादिभिश्चाविशेप इत्यपि न साधु । पश्वादयो यद्यपि आत्मा नात्मविवेकहीनतया प्रसिद्धमुग्धभावाः तथापि तेषां स्वहिताहितप्रमातृत्वे स मुग्धभावः कथमुपयुज्यते । अविवेकोऽन्यविषयः । प्रमितिरन्यविषय । विषयान्तरमसितकर्नेत्रे विषयान्तरव्यामोहो नापेक्ष्यते । तस्मात् 'अविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च' इति । साक्षाद्वितत्रादः ।।
शास्त्रीये च व्यवहारे बुद्धिपूर्वं क्षारी नाविदित्वा आत्मनः परलोक सम्बन्धं अधिक्रियते । तस्यायमध्यासो न सम्भवति । यद्यप तस्य वेदान्तवेद्यमशनायाद्यतोतं अपेतव्रह्मक्षत्रादिभेदं असंसार्यात्मत्वं लोका- न्तरानुभाव्यफलभोक्तृ अनश्वरमात्मतत्त्वमपेक्ष्यत एव । नचेदृशविवेक- चतः उक्त बिधोऽध्यासः सम्भवी । यत्तु ब्राह्मणो यजेत’ इत्यादीनि शास्त्राणि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्त इति तन्न । ‘स्वर्ग