पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिच्छेदः निर्गुगत्वम् १८५ अन्यथा अपहतपाप्मत्वमिति वाच्यम्, न त्वपहतपाप्मेति । तेनास्यापि गुणम्य स्वरूपहवाऽपरिहार्यः | स्वरूपातिरेकेऽपि ज्ञेयत्वं न विहन्यते । शास्त्रोपदिष्टत्वात् । ननु सत्यकामत्वादिकमाविद्यकम् | अविद्यानिवर्तक ज्ञान विषयत्वं तस्य कथं घटत इति चेत् अद्वैतरणार्थं सत्यकामत्वादेर्गुणजा- तस्याज्ञयत्वं अतात्विकत्वं अविद्या सिद्धत्वमित्यादि कमभ्युपगन्तव्य- मित्युक्तं भवति । तथा च प्रमाणतोऽद्वैतसिद्धिदुर्लभा । तदभिनिविष्ठैः सर्चप्रमाणप्रामाण्यःसिद्धिः परं सम्पाद्यत इति सुधियामतिरोहितमेतत् । पाप्मत्वादिवत् सत्यकामत्वादयोऽपि ब्रह्मस्वरूपगता एव गुणाः । तद्विशिष्ट मात्मशब्दितं ब्रह्म'च आत्माहत पाप्मे' त्यादिनाऽनुवादस रूपेण वाक्येनोपदिश्य ‘सोऽन्वेष्टव्यः स त्रिजिज्ञासितव्य' इति तस्यैव यथावद् ज्ञानपूर्वकमुपास्यत्वं विधीयते । तस्य चाद्वैतं सदेव सोम्येदमित्यादिषु श्रूयते । तः सर्वप्रमाणावरोधित्वात् सर्वप्रमाणस्वरससिद्धत्वाच विशिष्टस्याद्वैतं शास्त्रप्रमेयम् । न तु शुद्धचैतन्यस्य । तद्वैपरीत्यादिति अनभिनिविष्टानां तत्त्वोपलम्भप्रवगानां सतां सुगमम् । एतेन सगुणोपासनस्य साक्षान्मुक्तिसावनस्वाभावं निर्गुणज्ञानस्व तत्त्वं चेच्छता यदुक्तम् - "यद्यपि नास्याब्रह्मवित् कुले भवतीत्यादि- फलान्तरश्रवणं निर्गुणज्ञानेऽपि | स्तुत्यर्थतयोपादनमपि समानम् । संयो- गपृथक्त्वेन उभयफलत्वांक्तिरपि समाना । तथापि अधिष्ठानतत्त्वावगा- हित्वाभ्यां निर्गुण सगुणज्ञानयोविशेषात् सगुणज्ञानजन्यमुक्तेरवान्तरमु- त्तित्वाच्च ।” इति तदपि निरस्तम् । निर्विशेषासिद्धया विशिष्टज्ञानस्य त्तत्त्वावगाहित्वात् । निर्गुणज्ञानस्यातत्त्वावगाहित्वेन निष्फत्तत्वात् प्रत्युत योऽन्यथा सन्तमात्मानमिति न्यायेन विपरीतफलत्वाच्च ततो मुक्तिलाभ- कथाया दूरनिरस्तत्वात् । यदवि 'तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति गुवशिष्टस्य १३