परिच्छेदः निर्गुणत्वम १८७ रस्यार्थस्यात्र विद्यते । तस्माद्विशिष्टस्यैवात्र ब्रह्मत्वमुपदिश्यत इति ज्ञयम् । एवं प्रमाणवाक्यानि सर्वाणि सगुणब्रह्मबोधकान्येव । निर्गुणबोध- कन्तु एकमपि नास्ति | नच सम्भवतीत्युक्तम् । अथ सगुगत्वेऽनुम:- नान्यपि द्वैतिभिरुक्तानि । तानि दूषयन्नाह - "एप्वनुमानेषु धर्मिपदस्त्र- पदयोर्यत्किञ्चिद्धर्मियत्किञ्चित्सम्बन्धिपरत्वे घटादिसमसत्ताककल्पित- धर्मवत्त्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसद्धिः | घटादिधर्मे ब्रह्मसमानसत्ताकव्वादेरप्रसिद्धेः । न च दृष्टान्ते साध्यनिरूपणे तदेव धर्मी | पक्षे तन्निरूपणे ब्रह्मैव धर्मी । धर्मिंदस्व दादीनां समभिव्याहृत- परत्वादिति वाच्यम् | शब्दस्वभावोन्यासस्यानुमानं प्रत्यप्रयोजकत्वात् । स्त्रस्वरूपपदस्याप्येवमेव ब्रह्मपरत्वं साध्याप्रसिद्धिः | घटादिपरत्वे सिद्ध- साधनम् | समभिव्याहृतपरत्वस्य शब्दस्वभावस्यानुमानं प्रत्यप्रयोजक- त्वमिति दूष, पूर्ववत ।" इति । तदेतन् किं स्वप्रयुक्तमनुमानं विस्मृतवता उक्तं अथवा अनृजुशीलतयेति न विद्मः | विवरणोक्तं हि भावरूपाज्ञानानुमानं स्वप्रागभावव्यतिरिक्ते-यादि स्वपद् घटि त साध्यक मेव । अत्रोक्तं दूषण तत्र कुतो न भवति । स्वकीयेषु चानुमानेषु परमार्थ- सत्त्वं स्वसमानाधिकरणान्योन्याभावप्रतियोग्यवृत्तीत्यादिषु स्वपघटनं क्रियते । तस्मादेवमनुमानदूषणं दूषकस्य दूषणं भवति । किमधिकेन | यत्तु निर्गुणत्वसाधकमनुमानं - अनुभूतिनिर्विशेषा अनुभूतित्वात्, य॒न्नैवं तन्नैर्वामिति । तत्र अनुभूतित्वरूपविशेषवत् अनुभूतेरङ्गीक्रियते न वा । आद्ये बाधो दोषः । अन्त्ये हेतोरसिद्धिः । वह्निर्निविशेषः वह्न- त्वादिति व्यतिरेक्याभाससाम्यं च । निर्विशेषत्वबोधकमेकमपि श्रुति- वाक्यं नास्तीति निरूपितत्वात् । किञ्च निर्विशेषत्वं नाम अनुभूतिस्वरूपा- तिरिक्तो विशेषो न वा । आद्ये तेनैव सविशेषत्वान्न न्निविशेषत्वम् । ये अनुभूतिस्वरूपे विवादाभावात् न किञ्चित्साध्यमस्ति । अनु-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति