१८८ विशिष्टाद्वैनसिद्धिः द्वितीयः भूतिस्वरूपस्य निर्विशेषत्वरूपेण ज्ञानमुद्दे श्यमिति चेन्न । स्वरूपातिरि- क्तस्य निर्विशेषत्वरूपस्थाभावेन अनेन रूपेण स्वरूपज्ञानमिति वचसोऽथ- शून्यत्वात् । यत्र हि स्वरूपातिरिक्तं रूपमस्ति तत्रैवं व्यवहारो भवति । घटा घटत्वेन ज्ञायते द्रव्यत्वेन ज्ञायत इत्यादि । यस्य तु यः कोऽप विशेपो नास्ति तस्य कथं पूर्वमझातेन केनचिद्रूपेण ज्ञानं भवनु- महति ? स्ववाग्बिगेधमप्यजानन्तो भवन्तो वृथा वादाडम्बरं कुर्वन्ति । किञ्च अप्रयोजकमिदद्मनुमानम् | न च भिन्नत्वे अभिन्नत्वे सम्बद्धवे असम्बद्धत्वे च तिप्रसङ्गानवस्थाभ्यां धर्मघमिभावानुपपत्तिरव विपक्षे बाधिकेति वाच्यम् । बौद्धोपज्ञस्यास्य कुतर्कस्य वेदान्तिभिर्निरसनीय- त्वात् । अभिन्नत्वं तावन्नाभ्युपगम्यते | भिन्नत्वं तु इष्यत एव । धर्मधाम- भावस्य तद्वयाप्यत्वःत्। न च भिन्नवार्धर्मधर्मभाव घटपटयोः मेरुहि- माचलयार्वा तदापत्तिः। नहि भेदे सति धर्ममावनिमोऽभ्युपगै म्यते । अपि तु धर्मवर्मिमावे सति भेनियमः | सम्बन्वोऽपि अतिरिक्ता नेष्यते । गुणगुणनौ जातिव्यक्ती इत्यादिकं स्वभावत एव परस्परं सम्बद्धमुपलभ्यते । तावता धर्मधर्मभावः । अतिरिक्तसम्बन्धानभ्युपग- मान्नानवस्था। असम्बन्धेऽपि धर्मर्मिभावेऽतिप्रसङ्गस्तु तत्तद्धर्मधर्म- स्वभावविशेषात् परिहृतः । कोऽसौ सम्बन्ध इति चेत् अपृथकूस्थिति- रिति गृह्यताम् । अतश्च धर्मवर्मिभावानुपपत्तेः विपक्षबाधकतर्कस्य विरहादप्रयोजकमनुमानम् । - यच्च साध्यप्रसिद्धयेऽनुमानान्तरमुक्तं - विशेषत्वमभावप्रतियोगिताः वच्छेदकं, अभावप्रतियोगिसामान्यवृत्तित्वात् घटत्ववन्, इति तन् पदार्थत्वमभावप्रतियोगितावच्छेदकं अभावप्रतियोगिसामान्यवृत्तित्वान् घटत्ववत् इत्येतत्तुल्यम् । विशेषत्व उक्तसाध्यवन, सकलपदार्थवृत्ति- वृत्तिःवात् मेयत्वत्ववत् इति प्रतिसाधनं च । न चासिद्धिः | पदार्थत्वेन सर्वस्य विशेषवत्त्व साधनात् । किञ्च अभावपदेन कि विशेषाभावो विव ,
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति