T प्रसिद्धिः । दृष्टान्ते तदसिद्धेः द्वितीये बाधः | पक्षस्य घटाभावप्रति- योगितावच्छेदकत्वःभःवनिवान् | तृतीयेऽपादं समानम् । विशे- षत्वमय अभावसामान्य प्रतियोगितावच्छेदत्वाभावनिश्चयात् । घटत्व- स्वापि तथात्वनियात् दृष्टान्नस्य साध्यवैकल्यञ्च | न च कथञ्चिदनु - गमः । शब्दस्वभावस्यानुमानं प्रत्यप्रयोजकत्वस्य त्वयैवोक्तत्वात् । अथ निर्विशेषे किं प्रमाण’मति चोद्यं समादधता यदुक्तम् स्फूर्त्यर्थं वा अज्ञाननिवृत्त्यर्थं वा प्रमाण प्रश्नः ? आद्ये स्वप्रहाशतया प्रमाण यर्थ्यम् | द्वितीये उपनिषद् एव प्रमाणत्वमिति, तत्र नमः | स्वप्रकाशस्यात्मनः अहमिति यत्स्फुरणं ततोऽतिरिक्तं स्फुरणं तावन्नास्ति | तत्तु ज्ञातृभोक्तृ- विषयमेव । न तु निर्विशेषविषयम् | न च तत्र विषयान्तरमानेऽपि निर्चिशेषस्वरूपमपि भातांति वाच्यम् । विशेषैः सह भासमानस्य निर्वि शेषत्वायोगात् । अतां निविशेषस्कुरणे किञ्चित्प्रमाणं वाच्यमेव । तत्त नैवास्ति । अज्ञाननिवर्तकं प्रमाण मुपनिपदित्यप न । येन केनाप्युपनिष द्वाक्येन निविशेषस्यानुक्तेः । विस्तरेणोपपादितञ्चैतन् । अतोऽत्यन्तममा माणिक्रमेव निर्विशेषं वस्तु । यदुक्तं – “वृत्तिमन्तरेणापि सुप्तोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामाण्यस्य वानिकऋद्भिरुपपादितत्वाचे ति तदशक्यरक्षणा- द्वैतरक्षणसंरम्भाधीनाविवेकविलसितम् | दवा /दिवन् ध्वनिमात्रेण हि वाक्यं सुप्तोत्थापने उपयुज्यते । न तत्र शाब्दत्रो- धोऽस्ति यावत्प्रबोधम् | प्रवुद्धस्तु यद वाक्यं शृणांति, सम्बन्धज्ञानपुर- स्सरमेव वाक्यार्थं जानाति । तस्मात् "सगुणत्वे सावकामावान् बाधक- सत्त्वाञ्च निर्गुणत्वे तदभावान् निर्गुणमेव ब्रह्मेति सिद्धम्" इति निगमनं तत्र भवतः ‘सर्वार्थान् विपरीतांञ्च' इति भगवल्लक्षितवृद्धि विशेष वैभवाधी- नमित्यत्र कस्य ऋजुवुद्धेः सन्देहो भवितुमर्हति ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति