परिच्छेदः निराकारत्वम १६१ मेश्वरे नोपपद्यत इति । अत्र ब्रूमः | स्यात्परमेश्वरस्यापि इच्छावशान्मा- यामयं रूपं साधकानुग्रहार्थम् ।” इति । एवं तदेवानुप्राविशत् इत्यनुप्रवे- शनवरणात् विभुना स्वरूपेण तदचांगात् विग्रहविशेषद्वारैव तद्वाच्यम् | एतद्विशिष्टोऽस्मद्धृये स्थित एव हार्द इत्युच्यते । 'सदा जनानां हृदये सन्निविष्टः’ ‘स यञ्चायं पुरुषे इत्यादिभिः श्रुतिभिः स एवाभिप्रेतः । हार्दानुगृहीत इति सूत्रकारश्च वदति । 'हृदयालयेन ब्रह्मरणा' इति भव- द्भाष्यं च तत्र | एवमनुप्रवेशार्थापत्त्या रूपविशेषे सिद्धयति "स्वसृष्ट- कार्याभिव्यक्तत्वस्यैवानु प्रवेशशब्दार्थतया व्यापकस्य मुख्यप्रवेशासम्भ- चात्" इति तन्निरसनव्यसनितयाऽसङ्गतं किमप्याह । व्यापकस्य मुख्य- प्रवेशासम्भवादेव हि मुख्यप्रवेशोपपादकं रूपं सिद्धयतीत्युच्यते । एवं वदन्तं प्रति व्यापकस्य मुख्य प्रवेशासम्भवादित्यभिधानं कथं सङ्गतं अत्रेत् । अपूर्वकल्पनन्यायेन च रूपकल्पनं ह्यत्र प्राप्तम् । एवं मुख्यार्थ- सम्भवे लक्षणा न न्याय्येति चाभ्युपगन्तव्यम् । तदस्थ तात्त्विकस्यार्थस्य प्रतिक्षेपाय कमपि युक्त्याभासमध्यप्रतिपद्यमानः व्यामुग्धं किर्माप लिलेख । अत एव 'व्यापकस्य मुख्य प्रवेशासम्भवेन स्वसृष्ट कार्याभिव्यक्तत्वस्यानु- प्रवेशशब्दार्थत्वात्' इति लेखनीये विपरीतलेखनमापतितमिति ज्ञेयम् । एवं ब्रह्मविदाप्नोति परमित श्रुतप्राप्त्यर्थापत्त्याऽपि देशविशेषे स्वासा- धारणविग्रह विशिष्टतया ब्रह्मणोऽवस्थानं सिद्धम् । उपचारेणार्थान्तर- कथने प्रमाणाभावात् । अन्यथाऽद्वैतं न सिद्धयतीति तु भवता वाच्यम् | कथं नाम इतरथा "स्वतः प्राप्तस्थाऽपि अविद्यातिरोधार्नानवृत्त्यपेक्षया प्राप्यत्वापचारेण विग्रहानाक्षेपकत्वात्” इति निश्शङ्कमुच्यते । मुख्यार्थ- परित्यागेन उपचाराश्रयणे न खलु क्रिमांप बाजं भवना वक्तुं शक्यम् | तमेवं विद्वानमृत इति सविग्रहोपासनफलमुक्तेः क्रममुक्तित्वोक्तिः साक्षा- न्मुक्तित्वपक्षे तदुपलक्षितात्मज्ञानस्यैव मोचकत्वोक्तिञ्च पूर्ववदेव अप्रामा- णिकी । आभिमानिकाद्वैतसङ्गेन प्रमाणवचनानि निर्दयं विनाश्यन्त इति
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति