पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ विशिष्टाद्वैतसिद्धिः द्वितीयः मन्ये स्वहृद्यमेव भवन्तं भवादृशांश्च व्यथयति । अत एव हि वंशीवि- भूषितकरादित्यनुपदं भवतः रूपविशेषविशिष्टभगवत्स्मरणप्रवृत्तिः । भवत्सिद्धान्तमनुसृत्य तु तत्र चतुर्थः पादः 'कृष्णात्परं किमपि नाहम- वस्तु जाने' इति पठनीयः । एवं तमसः परस्तादादित्यवरूपं, आदित्य- मण्डलान्तर्वतिं रूपं, हार्दरूपं, अजायमानो बहुचा विजायत इति श्रुतं अवताररूपं इति सुत्रहूनि भगवतो रूपाणि । इमानि परिच्छिन्नानि । स्वरूपवदेव अपरिच्छिन्नमपरं रूपमस्ति, यदर्जुन दृष्टं, 'देवा अभ्यस्य रूपस्य नित्यं दर्शनकाङ्ङ्क्षिणः' इति भगवतैव वातञ्च । यस्तु भगवद्विग्रहं प्रांत विकल्पः भौतिको वा भौतिको वेत्यादिः, तत्र नमः | अभौतिकः अमायिक ब्रह्मांभन्नश्चेति । न चात्र नेति नेतीतिश्रुतिविरोधः | तस्याः प्रकृतैतावत्त्वप्रतिषेधमात्रत्वस्य पूर्वमुक्त- त्वात् । न चापाणिपादमिति श्रुतिविरोधः । तस्याः 'अनेजदेकं मनस्स जवीयः' 'तद्धावतोऽन्यानत्येति तिष्ठन्' इतिवत् स्वरूपवैभवपरत्वात् तस्य स्वरूपं हि पाणिपादरहितम् । अथाऽपि सः जवनो ग्रहीता । प्रति- वेगेनापि यो ध. वति तस्यापि स्वयं वेगवत्तरः सन् ग्रहीता भवति । यत्र यत्र स धावत तत्र तत्र वर्तमानत्वात् । तदनेन स्वरूपस्य सर्वव्यापित्व- मुच्यते । अतो विग्रहवत्वस्य नानेन विरोधः । न च परविद्याविषयस्य विग्रहवत्त्वप्रतिपादनविरोधः । 'उदेति ह वे सर्वेभ्यः पाप्मभ्यः, य एवं वेद' इति सर्वपापक्षयरूपमुतिफलतया परविद्या रूपान्तरादित्य विद्या- विषयस्य रूपवत्त्वश्रवरणात् । भगवद्रूपेषु च कानिचित्प्रादुर्भावतिरोभाववन्ति । ' तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' इति परमे व्याम्नि नित्यसूरिभिः सदाऽनुभूय- मानं तु सर्वरूपान्तरप्रकृतिभूतं रूपं नित्यम् । सदा पश्यन्तीत श्रवणात । सर्वाण्यपि वा नित्यानि कामं भवितुमर्हन्ति । यत्तु भगवद्वग्रहो न नित्यः, महत्त्वे सति रूपवत्त्वात् विग्रहत्वाद्वा इत्यनित्यत्वानुमानं ८