परिच्छेदः ज्ञानत्वादि तदागमबाधितम् । सदा पश्यन्तीति श्रवणात् । न चास्यान्यथासिद्धिः सुवचा । प्राकृतत्वमुपाधिश्च । नच साधनव्यापकत्वम् | 'तमसः परस्तात्, तमसः पराके, त्रिपाद्स्यामृतं दिधि' इति प्रकृति मण्डलानिक्रमश्रवणेन तस्य सर्वस्यः प्राकृत चस्यायचारित्वान् । एतेन सावयवत्यवहेतुरपि निरस्तः | आगमेन बाधान् | सोपाधिकत्वाच्च । अन्यथा जगत्स्रष्टा जीवः, कर्तृत्वान्, कुलालवदित्यपि साधु स्यान् । न चानादेर्भावस्या- नित्यता भवितुमर्हति । क्वचिदष्यदर्शनात् । अत एव भवतां अनादि- मात्रज्ञाननिवृत्त्व भिवानमयुक्त मेव । भगवद्विग्रहवत् तल्लोका अपना' हि वैष्णवा लोका नित्यास्ते चेतनात्मका:' 'मत्प्रसादात परां शान्ति स्थानं प्राप्स्यसि शाश्वतम्' इत्यादिभ्यः । यत्त्वत्र 'एषामवान्तरप्रस्थत्वरत्वान्न विरोध' इत्युच्यते तत्तदा शोभेत यद प्रमाणवचनानि सर्वाणि भवदा- ज्ञापरतन्त्राणि स्युः । तानि हि विना कारणं उपचारवादप्रवृत्तं कुटिल- हृदयं मन्यमानानि तमवज्ञाय स्वमुख्यार्थपराण्येव भवन्ति सुजनमनां- सीव | तस्मात् १६३ वैकुण्ठे तु परे लांके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भक्तेभार्गवतैः सह ॥ इत्युक्तरीत्या दिव्या-द्भुतविग्रह विशिष्ट एव भगवानिति सिद्धम् । ४. ज्ञानत्वादि । निर्विशेषस्य कथं ज्ञानत्त्रमिति चेत् तदुपपादयन्नाह - अर्थप्रकाश- त्वमेव ज्ञानत्वम् | मुक्तावर्याभावेऽपि तत्संसृष्टप्रकाशत्वस्य कदाचिदर्थ- सम्बन्धेनाध्यनपायान् , इति । इदमयुक्तम् । निर्विशेषस्य निर्विषयकत्वे- नार्थप्रकाशत्वाभावात् । वृत्त्यवच्छिन्नस्य सविषयत्वं भवतीति चेत् कथम् । निर्विकारं हि तत् । वृत्तिः कथं तत्र कञ्चन विकारमुपादयेन् । अतो वृत्तिदशायामपि निर्विशेषस्य ज्ञानत्वं नास्ति । मुक्तौ वृत्तिसामान्य-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति