१६४ विशिष्टाद्वैतसिद्धिः द्वितीयः •विरहात् नतराम् । तत्र अतीतेनापि विषयसम्बन्धेन यदि ज्ञानत्वं भवति तहि पटप्रकाशस्यापि पूर्वज्ञातघटप्रकाशत्वेन घटज्ञानत्वमपि स्यात् । न च वृत्तिभेदेन नियमः | मुक्तौ वृत्तिसामान्यविरहेऽपि ज्ञानत्वस्वेष्यमाण- त्वेन अमुक्तिदशायामपि वृत्तेर्ज्ञानत्वाप्रयोजकत्वात् । प्रयोजकत्वे वा मुक्त ज्ञानत्वं न स्यान् । वृत्तेरभावात् । किव्व विद्याकांल्पतार्थसम्बन्धायत्तं यदि ब्रह्मणो ज्ञानत्वं तहींद- मौपाधिकं स्यात् । न च सत्यं ज्ञानमित्युपदिश्यमानस्य ज्ञानत्वस्यौपा- धिकत्वे किञ्चन प्रमाणमस्ति । अतः स्वतः प्राप्तस्य स्वाभाविकत्वस्य विघातो यथा न भवति तथा एतद्वाक्यवोध्यतत्त्वस्त्र रूपमवधारणीयम् । · स्वाभाविकसत्यत्वसमभिव्याहाराच्च तथात्वं ज्ञानत्वस्य प्रतीयते । अतः स्वत एवार्थप्रकाशरूत्वं ब्रह्मणो वाच्यम् | कस्यार्थस्य स प्रकाश इति चेतू स्वस्यैव | ब्रह्म हि स्वात्मानं स्वयं गृह्णाति अहमिति । अतस्त ज्ञानम् । अत एव स्वस्य वा परस्य वा यः प्रकाशः तद् ज्ञानमिति ज्ञान- लक्षणम् । अत एव च अर्थो नास्ति, ज्ञानन्तु अस्तीति व्याहतं वचः । अर्थाभावात् तद्नवगाहित्वेन मुक्तौ ज्ञानत्वं नास्तीत्येव तु पर्यवस्यति । तदेवमद्वैत मते मुक्तौ ज्ञानत्वं दुर्घटमेव । एवमानन्दुत्वमपि ! तद्धि निरुपाधिकंटत्वरूपमिष्यते । मुक्त्यव- स्थायां कस्य निरुपाधिकेष्टुं ब्रह्म । न तावत् स्वस्य | स्ववेद्यत्वानभ्युपग- -मात् । नापि परस्य । तदानीं तद्भावात् । यत्तु 'मुक्ताविच्छापायेऽांप नानन्दापायापतिः । इष्टत्वोपलक्षितस्य स्वरूपस्यानपायात् | उपलक्ष्ये च तदवच्छेदकसत्त्वस्थातन्त्रत्वात्' इत तन्न | निरुपाधिकेष्टत्वं हि आ ·न्दुत्वमुक्तम् । तत्र तादृशेष्टत्वोपलक्षितं स्वरूपमित्युक्ते आनन्दत्वापलांक्षतं स्वरूपमित्येवोक्तं भवति । तथा च ज्ञानत्वमिव आनन्दत्वमपि मुक्तौ नास्तीति पर्यवति । तेन जडमनानन्दात्मकं च तदा ब्रह्म भवेत् । उपलक्षकधर्मारणामपि तत्तद्वयवहारप्रयोजकत्वे वा बन्धोपलक्षितत्वमादाय
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति