परिच्छेदः ज्ञानत्वादि १६५ बद्धत्र्यवहारोऽपि स्यात् । न चात्र सर्वत्रेष्टापत्तिः | सर्वशून्यत्वेऽपि तत्प्र- सङ्गात् । न च तस्याप्रामाणिकत्वाद्विशेषः । प्रकृतेऽपि अप्रामाणिकत्वस्य तुल्यत्वात् | ज्ञानत्वानन्दत्वादिकं हि ब्रह्मणः स्वाभाविकं नित्यं च न्या- यानुगृहीतश्रुतिवचनशतेनावगम्यते । तथा सति यथा संसारबन्धान्मुक्तिः तथा ज्ञानत्वानन्दत्वाभ्यामपि मुक्तिः । अथापि स्वरूपस्यैकत्वात् ज्ञाना- नन्दात्मकं बद्धञ्च मुक्त्यवस्थायां ब्रह्मेति इष्टमेवेंति कथनं कथन्नाम विद्वांसः सहेरन् । अत्रेदं बोध्यम् । अद्वैतमेव पारमार्थिकं तत्त्वमिति स्वबुद्धयाऽवधार्य तस्मिन्नर्थे उपनिषद्वाक्यानि हादपि योजनीयानीति दृढाध्यवसायाः ब्रह्म सम्बन्धितया श्रुतानां गुणवत्र मार्ग इति निश्चित्य ' किं ब्रह्मति स्वरूपमात्र प्रश्नः, तत्प्रतिवचनत्वात् सत्यं ज्ञानमनन्तं ब्रह्म, आनन्दो ब्रह्मत्यादिकमपि स्वरूप मात्रबोधनपरम्, अतः सत्यत्वज्ञान- त्वादिकं स्वरूपोपलक्षकमेव न तु तद्वशिष्टं ब्रह्म । तदपि कल्पितं ज्ञान- त्वादिकं निगुणश्रुत्या प्रतिषिद्धमिति वदन्ति । उष्णीषानुरोधेन शिर- श्छेदनमेतदति तत्त्वं विद्भिः प्रामाणिकैस्तु तद्वैपरीत्येन न्यायानुगृही- तानि वेदान्तवाक्यानि कमर्थं बोधयन्तीत्यन्विष्य सोऽवधार्यते । तत्र 'किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क च सम्प्रतिष्ठा । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यत्रस्याम्' इत्युपनिषत् स्वयमेव प्रश्नं निबध्नाति । अत्र सर्वभूतोसत्तिस्थिति कारणभूतं सर्वनि- मन्तृ च ब्रह्मपवाच्यं किञ्चिदस्तीति जानतां, इयं सा व्यक्तिरिति विशिष्याजानतां चायं प्रश्न इति स्पष्टम् । अत्र कार्यवर्गस्य सत्यत्वे वा, तन्निरूपितं यत् कारणत्वं नियन्तृत्व च, ब्रह्मपद्प्रवृत्तिनिमित्तं निरति- शयंबृहत्त्वं च तद्विशिष्टत्वे वा ब्रह्मणः न कश्चित् संशयोऽस्ति । अत्र सर्वत्र निश्चयवन्त ऋषयः एतेर्विशेषणै विशिष्ट व्यक्तिः कति विवाश्मत्र- तारयामासुः । सा व्यक्तिः काल इति केचिदूचिरे । एवमन्येऽन्ये अन्य-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति