परिच्छेदः निमित्तोपादानत्वम् थै जातीयोरे कार्यकारणभावे सति नविलक्षणत्वाधिकर- णस्य कथमुत्थितिः । जडत्वचेतनत्वकिञ्चिज्ज्ञत्व सर्वज्ञत्वादिभिरत्यन्त- विलक्षणयोर्जगद्ब्रह्मणोः कथं कार्यकारणभाव इतीममाक्षेत्रमुत्थाप्य अस्ति तादृशयोरांपस इति स्थापनं हि तत्र क्रियते । उक्तरीत्या सलक्षणयोरेव कार्यकारणभावे सति अयोः पूर्वपक्षसिद्धान्तयोरवकाश एव नास्तीति चेत्, श्रृयताम् । तदैक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इत्यादिभिः परस्मात ब्रह्मणः तद्विल- क्षणाकाशःद्युत्पत्तिः श्रव्यते । यदि विलक्षणयोः कार्यकारणभावः कथ- मपि न सम्भवतीति स्यात् तर्हि इमानि वेदान्तवाक्यानि अग्निरनुष्ण इत्यादिवत् बाधितार्थानि सन्ति बह्मकारणत्वं नैव गमयेयुः । ईक्षणादे- गैरिणत्वमाश्रित्य प्रधानपरतयैव नेयानि स्युः । तथा च श्रीमद्भाष्यम् - ‘विलक्षणयोहिं कार्यकारणभावः प्रतिपादयितुमेव न शक्यते' इति । अतः शाब्दबुद्धिप्रतिबन्ध कायोग्यता निश्चय विघटनाय लोके कार्यकारणयोः सालक्षण्यनियमो नास्तीति व्युत्पादनमनेनाविकरणेन क्रियते । तेन शाब्दबोधे निराबाधं निष्पन्ने वाक्यान्तरप्रमाणान्तरावगतकार्यकारण- भूततत्तद्वस्तुम्वरूपस्वभावपर्या लोचनया विशिष्टं प्रति विशिष्टस्योपादा- नत्वमित्यवधार्यत इति । तदेवमस्मन्मते अवस्था विशेषवत्वेन अपृथक्सिद्धकारणत्वेन वा ब्रह्मण उपादानत्वं सुघटम् । भवन्मते तु शुद्धचैतन्यस्य तदभावात् भव- द्भुक्तोपादानलक्षणस्य दुष्टत्वाच्च दुर्घटम् । न च सर्वकार्याधिष्ठानत्वाद् ब्र॒ह्मणः तदृपृथसिद्धिरस्त्येवेति वाच्यम् । तत्सत्त्वेऽपि कारणत्वायोगेन उपादानत्वासम्भवात् । न हि शुद्धचैतन्यस्य यत् किमपि कार्यं प्रति कार- गत्वमस्ति । उपहितं कारणमिति चेत्, ततः किम् । उपाधिरेव कारण- मिति पर्यवसानात् । न हि आधिना चैतन्यस्वरूपे कञ्चनातिशयो जन्यते । निर्विकारत्वात् । तेन उपहितं कारणमित्यनेन उपाधिः कारण- १४
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति