पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैत सिद्धिः द्वितीयः मित्यतोऽतिरिक्तं न किञ्चिदुक्तं भवति । एतेन निमित्तत्वमपि शुद्धचैतन्यस्य नास्तीत्युक्तं भवति । ईक्षण- कर्तृत्वाभावात् । यत्तु अविद्यापरिणामेच्छ' कृत्याद्याश्रयत्वमस्तीति, तन्नेत्यु- क्तमेव । न हि अविद्यापरिणामो यः कोऽपि शुद्धचैतन्यं स्पृशति । नित्य- शुद्धमुक्तत्वस्वभावत्वात् । न च तदैक्षत तदसृजतेत्यादिषु अविद्यापरि - णामग्रहणे किञ्चन प्रमाणमस्ति । कल्पितं कार्य प्रति कर्तृत्वायोगाच्च न निमित्तत्वम् । यत्तु 'कुत्लालादि कार्यघटादावपि अकल्पितत्वस्य न सम्प्र- तिपत्तिरिति तत् वह्न रुष्णत्वे नास्ति सम्प्रतिपत्तिरित्येतत्तुल्यम् । तस्मा- दद्वैतमते ब्रह्मणः श्रुते उपादानवनिमित्तत्वे न घटेते इति सिद्धम । ६. स्वप्रकाशत्वम् । ब्रह्मणस्तावत् ज्ञानत्वं श्रुतं – सत्यं ज्ञानमनन्तमिति | ज्ञानत्वं नाम स्वस्य वा परस्य वा कस्यचित् प्रकाशकत्वमित्युक्तम् । तत्रात्मस्वरूपेगा इतरस्य भानाभावात् स्वभासकत्वेनैव तस्य श्रुतं ज्ञानत्वमुपपादनीयम् । तथा च ब्रह्म स्वप्रकाशमिति सिद्धयति । स्वत एव न तु संविदन्तरात् प्रकाशः व्यवहारानुगुण्यं यस्य तत् स्वप्रकाशम् । घटपटादिकं स्वतों न प्रकाशते । अपितु आत्मधर्मभूतज्ञानद्वारा । अतस्तत्सर्वं परप्रकाशम् । आत्मस्वरूपं तद्धर्मभूतज्ञानं च पुनः ज्ञानान्तरवेद्यत्वेऽपि ज्ञानान्तरं विनाऽपि स्वत एव भूयिष्ठं प्रकाशते । अत उभयोरनयोः स्वप्रकाशत्वम् । आत्मस्वरूपं स्वस्मा एव स्वयं प्रकाशते । न परस्मै | धर्मभूतज्ञानं स्वाश्रयायैव स्वतः प्रकाशते । नान्यस्मै । स्वस्मै प्रकाशमानमात्मस्वरूपं अहमित्युल्लिख्यते । इदं स्वप्रकाशत्वं अद्वैतत्रह्मणो न सम्भवति । तस्य स्वविषयत्वान- भ्युपगमात् । यत्तु अवेद्यत्त्रे सति अपरोक्षव्यवहारविषयत्वयोग्यत्वं एत- दत्यन्ताभावानधिकरणत्वं वा स्वप्रकाशत्वम् । तच्च तत्राक्षतमिति तन्न | न हि स्वप्रकाशपदस्यायमर्थः । न च तदर्थपरित्यागे अर्थान्तरकल्पने