पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः स्वप्रकाशत्वम् २०३ चकिञ्चिप्रमाणमस्ति । किश्च योग्यत्वनिवेशात् मुक्तिदशायां स्वप्रका- शत्वं नास्तीत्येवाङ्गीकृतं भवति । न च ब्रह्मस्वभावस्य कालिकाव्या- प्यवृत्तित्वं युक्तम् ! सर्वदा एकरूपत्वात् । किञ्च आविद्यकापरोक्षव्यवहार- विषयत्वाधीनत्वात् ब्रह्मणः स्वप्रकाशत्वमौपाधिकमेव स्यात्, न स्वाभा- विक्रम् । तथा च तात्त्विकं स्वप्रकाशत्वं तस्य नास्ति : तेन च चिद्रूपत्वमेव तस्य हीग्रते | यद्धि स्वयं न प्रकाशते, परं च न प्रकाशयति, तद् घटादिवचिदेव । पिच घटादिकं ज्ञानेनैव प्रकाशते, न स्वतः । अतः तत् अस्व- प्रकाशम् | ज्ञानं तु ज्ञानान्तरं विना स्वयमेव प्रकाशते । अतः तत् स्व- प्रकाशमित्युच्यते | ब्रह्म च ज्ञानरूपत्वात् अहमुल्लेखित्वाच्च स्वयं स्वस्मै प्रकाशते । अतः स्वप्रकाशमिति प्रतीयते । तदिदं कुतो भवद्भिर्नाभ्युपग- म्यते । ब्रह्मरणो वेद्यत्त्रे घटादिवत् मिथ्यात्वं भवेत् । अतो नाभ्युपगम्यत इति चेत् ब्रह्मणो वेद्यत्वमभ्युपगम्य वेचत्वं मिथ्यात्वेन हेतुरित्येव कुतो नेष्यते । तथा चेदस्माकं सिद्धान्तहानिरिति चेत् तर्हि आभिमानिक- सिद्धान्तरक्षणार्थं प्रामाणिकमपि स्ववेद्यत्वं ब्रह्मणः प्रतिपिध्यत इति स्फुटमेतत् । एवं सति आर्जवेन स्वकाशत्वं नेष्यत इत्येव वाच्यम् | न तु परिभाधिकार्थान्तरकल्पने यतितव्यम् । अपरोक्षत्र्यवहारविषयत्वा- दिकं हि परप्रकाश्यघटादिसाधारणम् । तत् कुत इह स्वप्रकाशलक्षणे अन्तर्भाव्यते । घटादिवारणाय च पुनः अवेद्यत्त्रे सतीति विशेषणमुपा- दीयते । न चेदं युक्तम् । स्वप्रकाशपरप्रकाशयोः वेद्यावान्तरभेदत्वात् । तू प्रकाशते तस्यैव स्वतः परतो वेति विशेषाभिधानात् । सति अपरोक्षव्ववहारविषयत्वं तद्योग्यत्वं च व्याह- तमेव । तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्यावश्यकत्वात् । यत्तु अन्यत्र तद्विषयस्य स्फुरणस्य तद्व्यवहारजनकत्वेऽपि स्फुरणस्य स्वःविषयस्य स्वस्मिन् व्यवहारजनकत्वम् | स्वभावभेदात्, इति तन्न | स्वभाव-भेदा