२०४ विशिष्टाद्वैतसिद्धिः द्वितीयः सिद्धेः । तत्र प्रमाणाभावान् | स्वविषयस्यैव स्वस्य स्वस्मिन् तद्वयव - हारजकत्वस्य एप्रुञ्चत्वात् । न ह्यज्ञातस्य व्यवहारः सम्भवी | भेदनियतस्य विषयविषयभावस्य कथमेकम्मिन् सम्भव इति चेत् यथा घटादि वाचुपत्वप्रयोजकस्य रूपस्य स्वचाक्षुपत्यप्रयोजकत्वं यथा घटान दिप्रकाशकस्य दीपस्य स्वप्रकाशकत्वं तथा घटादिग्राहकम्य ज्ञानस्य- स्त्रम'हकत्वं न विरुध्यते । तथा ज्ञानरूपस्य आत्मनश्च । आत्मज्योतिष्ठ- वचनाच | अहमर्थत्वाच्च । स्वात्मानं प्रतीत्यहि मिति व्यवहरन्ति । एवं च विषयविपयिभावस्य भेदद्व्याप्तिर्ने सिद्धयनीति बोध्यम | भवन्तस्तु आत्मनः स्ववेद्यत्वे अत एवाहमर्थत्वे च शरीरभेदेनात्म- भेदान् अद्वैतभङ्गः स्यादिति त्रिभ्यतः अहमर्थस्यानात्मत्वं आत्मनोऽवेद्यत्वं च साधायितुमभिनिविशन्ते । तत्र स्वप्रकाशत्वं नास्तीत्येव पर्यवस्यति । सत्तामात्रेण चेन् स्फुरणं व्यवहारहेतुः तर्हि तस्य धकःश एव नास्तीत्युक्तां भवति । तत्र स्वप्रकाशना कथं भवेत् । अवेरपर्यायं त्वमेव तु भवेन् । 'यद्वा चिविषय स्वरूपत्वमेव स्वप्रकाशत्व मिति कल्पान्तर- माश्रयता तदभ्युपगत्तमेव भवति । परन्तु तत्र प्रकाशत्वमिति वक्तव्ये स्वप्रकाशत्वमिति वचनं न युज्यते । एनेन या स्वव्यवहारे स्वातिरिक्त संविदनपेक्षत्वं स्वावच्छिन्नसांव- दनपेक्षत्वं वा स्वप्रकाशत्वभित्येतदपि व्याख्यातम् । स्वव्यवहार्यत्वस्य हि एवं लक्षणं भवितुमर्हति । न तु स्वप्रकाशत्वस्य । अस्य तु 'स्वप्रकाशे संविदन्तरानपेक्षत्वमिं'त्यादि लक्षणं वाच्यम् । 'स्वयवहारे' इत्याि लक्षणेनापि यद्यपि स्ववेद्यत्वरूपं स्वप्रकाशत्वमर्थतः सिद्धयति, तथापि तस्य कण्ठतो निषेधातूं न तत् स्वप्रकाशत्वत्तक्षणं भवितुमर्हति । तत् सिद्धमद्वैतवःदे ब्रह्मरणः स्वप्रकाशत्वं दुर्घटमिति | अथ यत् स्वाभिमतस्वप्रकाशत्त्वे अनुभूतित्वहेतुरेव व्यतिरेकी प्रमा
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति