परिच्छेदः स्वप्रकाशत्वम् घटस्य विषयित्वाभावात् । न हि सामान्यस्याभावे विशेषस्वास्ति प्रसङ्गः । अनुभवस्तु विषयी | स्वभावसिद्धा सा विपयिता प्रमाणोप- पत्त्यनुरोधात् स्वनिरूविताऽनि भवतीत्यभ्युपेयते । तदत्र गुरुलाववस्थि- तिविपरीतेति मन्तव्यम् । २०७ यदपि ‘न दृष्टेईष्टारं पश्ये:' 'येनेदं सर्वं विजानाति तं केन विजा- नीयात्' इत्यादिमिरवेद्यत्वं श्राव्यत इति तदपि नास्ति | आस्थले तावत् 'यः प्राणेन प्राणिनि सतत् सर्वान्तरः' इति याज्ञवल्क्योक्तं श्रुतवतां उपस्तेन 'यथा विब्रूयाद्सौ गोरसावश्व इति, एवमेवैतद्व्यप - दिष्टं भवति' इति जीवपरयोविवेकनोत्तरमिदमुक्तमित्याक्षिप्ते पुनर्या- ज्ञवल्क्यः दृष्टेष्टारं दर्शनस्य कर्तारं जीवं मया उक्तं न मन्यस्व । तदितरः पर आत्मा मयोक्त इत्याह । द्वितीयस्थले च "येन परमात्मना प्रसन्नेनानुगृहीतः इदं सर्व विज्ञानाति, सर्वज्ञो भवति तं परमात्मानं केन हेतुना विजानीयात् । 'क इत्था वेद यत्र सः' इतिवत् परमात्मप्रसामन्त- रेग स दुरवबोधः” इत्याह । तत्र आत्मनोऽनुभूतेर्वाऽवेद्यत्वस्य कः प्रसङ्गः । क्रियाकर्मत्वविरोधान् न स्वस्मिन् स्ववेद्यत्वमित्यप्यसाधु | ज्ञानस्य छिदादिवत स्पन्दात्मकक्रियात्वाभावात् । न हि ज्ञानकर्मत्वं छिदां प्रति वृक्षस्येव मुख्यं कर्मत्वम् । किन्तु विषयत्वरूपं गौणम । अत एव लक्ष- गया द्वितीयया बोध्यते । तदुक्तं भादृरहस्ये - एवं च यत्र एतादृशकर्मत्वबाधः तत्र घटं जानाति मैत्रः, इच्छति कुरुते, घटस्य ज्ञातेत्यादी सविषयपदार्थाभिधायि- धातुयागे द्वितीयाषष्ठयोर्विषयत्वे लक्षणा... न त्वत्र परसमवे- तत्वप्रवेशः । वैयर्थ्यात् । स्वात्मानं जानामि, आत्मानमात्मना चेत्सि, इत्यादिप्रयोगाच्च । इति । स्वं जानामि, चैत्रंऽहं स्वात्मानं जानामि, आत्मानमा-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति