पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५ विशिष्टाद्वैतसिद्धिः द्वितीयः त्मना वेत्सि, इत्यादौ एकसंज्ञावरोधेऽपि संज्ञान्तरप्रयुक्त कार्य- दर्शनात् । न च शरीरमनोरूपावच्छेदकमादाय तत्रासाङ्कर्योप- पादनम् । तथात्वे स्वपदप्रयोगानुपपत्तेः । चैत्ररचैत्रं गच्छतीति प्रयोगेऽपि शरीरप्रदेशान्तरावच्छिन्नात्मादिभेदकल्पनोपपत्तेश्च इत्यादि च । ु अतो ज्ञानस्थले क्रियाकर्मत्वविरोधो वा कर्तृकर्मत्वविरोधो वा नास्तीति ज्ञेयम् । तदेवं वेग्रत्वानुमानानां बाधा नास्तीति निरूपितम् | जडत्वमुपा- धिरपि नास्ति । जडत्वं हि नाम ज्ञानभिन्नत्वं वा आत्मभिन्नत्वं वा । तत्र अनुभूतेः ज्ञानत्वात्मत्वे अभिमतेन वा ? आपतत्वमेवेदं जडत्वमिति नोपाधिः । अन्त्ये साधनव्यापकत्वान्नोपाधिः । यत्तु बाधो- नीतत्वेन पक्षेतरत्वरूपत्वेऽपि न इतिरिति, तदत्रानवकाशम् । बाधस्य निरस्तत्वात् । अवेद्यत्वस्यैव वाधितत्वात् । न हि निर्विषयस्य ज्ञानत्व- मनुभूतित्वं वा सम्भवति । केवला चितिश्च सकलविषयवरक्ताऽभ्यु- पगता | सा चेत् स्वात्मानमपि न गोचरयेत् तर्हि चित्त्वमेव हीयते । स्फुरणरूपत्वात् चित्त्वमिति चेत् कस्य स्फुरणं, कं प्रति च ? न कस्यचित् न कञ्चित् प्रतीति चेत् तर्हि तन् स्कुरणमिति कयमुच्यते । इदं मे स्फु- रति, तत् ते स्फुरति, इति ससम्बन्धिकं हि वस्तु स्फुरणं नाम लोके प्रसिद्धम् । प्रसिद्धस्वभावरहितं किञ्चित् तद्वस्तु कथं भवेत् । स्वतः सिद्धमिति चेत् उक्तोत्तरमेतत् । अवेद्यत्ववादिनः सिद्धिपदार्थो दुनिंरूप इति । तस्मात् स्वग्राहकत्वविरहे स्फुरणमेव तन्न स्यादिति हमेतत्प्रति | पत्तव्यम् । यदपि यथाशीलं कुटिलानुमानं प्रयुक्तं त्वदीयापरीक्षव्यवहारयोग्य- त्वज्ञानं त्वदीयापरोक्षव्यवहारयोग्यत्वे सति वेद्यत्व नधिकरणं ज्ञानत्वात्, मदीयज्ञानवत्, इत्यादि तत् वेद्यत्वस्थाने अवेद्यत्वं घटयित्वा प्रयुज्य- मानेन तेनैवानुमानेन सत्प्रतिपक्षितं भवति । यत्तु अत्र बाघकसत्वेन ु