परिच्छेदः स्वप्रकाश म् २०६ स्थापनाऽधिक बलेति, तदाशामोदऋतृ तमात्रमिति इयता निरूपणेन सुग मम् । वस्तुतस्तु इदमनुमानं ऋग्निः जलान्यत्वे सति स्पर्शवत्वानधिकर- णम्, द्रव्यत्वत्र्याप्य जातिमत्त्वात् जलवत्, इत्याभासतुल्यमिति ज्ञातव्यम् । घटादिविषयज्ञानं च तदाश्रयभूत ऽहम आत्मा चेत्युभयर्माप स्वप्रकाशमित्युक्तम् । तेन चिदभिन्नस्यात्मनोऽपि स्वप्रकाशत्वं चिद्रूप- त्वात् साधनीयमिति दुरवस्था नःनुभवनीया । यच्च वंद्यत्वे आत्मनो बेदनाभावादज्ञानदशायां संशर्याचपर्ययव्यतिरेकनिर्णयप्रसङ्ग • इति । तन्न स्वातिरिक्तवेदनाभावदशायामपि स्वात्मकग्ववेदनसत्त्वेन अत एव स्वप्रकाशत्वेन उक्त प्रसङ्गानव काशात् । अवे भवतस्तु स प्रसङ्गो दुनिवारः । तद्विषय कांनर्णयो हि तद्विषय कसंशयाद्यनुदय कारणम् । सदभावे ऋथं तद्विषयक संशयाद्यनुयः | चिद्भिन्नस्थल एव तथा नियम इति चेत् पुनः गौरवान्तरमाप द्यमानमङ्गीकुरुष्व | न चेदं सोढव्यम् । अप्रामः॰एक्त्वान्। अतः संशयाद्यनुयोपपत्त्यै वेद्यत्वमवश्याश्रयणी- यम् । तत्तु ज्ञानान्तरेणेव स्वतोऽपि भवतीति स्वप्रकाशत्वमिष्यते । आत्मैवास्य ज्योतिः स्वयंञ्योतिरित्यादिना चात्मनः स्त्रवेद्यत्वं सिद्धम् । अस्य जीवात्मनः आत्मैव स्वस्वरूपमेव ज्योतिः प्रकाशकम् इत्यर्थात् | एतेन 'स्वातिरिक्तानपेक्षतया स्वप्रकाशत्वमुक्तं' इति यदत्रोक्तं तन्न युक्त- मिति ज्ञेयम् । आत्मनैव प्रकाश्यमानतया स्वप्रकाशत्व नुक्त मिति हि वक्त- व्यम् ’ ‘अस्य ज्योतिः एतद्विषयक व्यवहारानुगुण्यजनकः' इति हि श्रुत्यर्थः । पष्.या विषयत्वार्थकात् । अत्राह -- “न चास्येति षष्ठया विषयत्वाभिधानम् । स्वयं दासा इत्यादाविवानन्यवेद्यत्वपरत्वात् । न चामुख्यार्थत्वापत्तिः । मुख्यविषयासम्भवेनेष्टत्वात् ।" इति । किमुक्तं भवति । अद्वैतसिद्धान्तविरोधात् श्रुतिरन्यथा नेयेति । तथा च श्रुतिविरु- द्धमद्वैतमिति स्वयमभ्युपगतं भवति । ,
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति