पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० विशिष्टाद्वैतसिद्धिः द्वितीयः इदमत्र बोध्यम् । आत्मैवास्य ज्योतिभवति, अत्रायं पुरुषः स्वयं ज्योतिर्भवति, इतीदं स्वप्नावस्थाविषयम् । इतः पूर्वं आदित्यचन्द्राभि- वाचां ज्योतिष्ट्र्मुक्तम् । तत्र आदित्येनैव ज्यातिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति श्रवणात् आसनादिक्रियानिवर्तनापयिक प्रकाशहेतु- त्वमेव ज्योतिःपदाभिप्रेन मिति ज्ञायते । आत्मनैवायं ज्योतिषाऽऽस्ने पत्ययते कर्म कुरुते विपल्येतीत श्रवणात् आत्मनोऽपि तादृशमेव ज्योति वाच्यम् । अतोऽत्रान्याधीनप्रकाशराहित्यमात्रे न तात्पर्यम् ! किन्तु आत्माधीनप्रकाशवत्त्वेऽपि । तत्र आत्मनः अहमिति प्रकाशः स्वेनैव । अन्यः सर्वः प्रकाशो धर्मभूतज्ञानेनेति । - यदपि " न च प्रदीपदौ स्वविषयत्वेन स्वप्रकाशत्वव्यवहारः सजा- तीयप्रकाशाप्रकाश्यप्रकाशत्वस्यैव तत्रापि व्यवहारनिदानत्वात् । अत एव न घटादावप्रकाशेऽतिप्रसङ्ग" इति तदप्यनार्जवेनैवोक्तम् । यद्यनि प्रदी- पादेः स्वविषयत्वं नास्ति । अतो न तस्य तत्प्रयोज्य: स्वप्रकाशत्वव्यव- हारः । तथापि स्वतः प्रकाशमानत्वात् स्वप्रकाशत्वमिति वक्तव्ये सजा- ·तीयप्रकाशाप्रकाश्यत्वमिति वक्रमुक्त्वा तस्य घटादावतिप्रसक्तत्वात् -तद्वारणाय प्रकाश वमन्यत् कुतो निवेश्यते । न हि घटादिप्रकाशको दीपः स्वयं न प्रकाशते । स्वातिरिक्त प्रकाश्यत्वं घटस्य अस्वप्रकाश- त्वम् । तदभावो दीपस्य स्वप्रकाशत्वम् । उभयोः प्रकाशमानत्वं तु समा- नम् । तथैव धर्मभूतं धर्मिभूतं वा ज्ञानं स्त्रय प्रकाशत इति स्वप्रकाशत्वं वाच्यम् | हठादेव तु अन्यदन्यन् स्वप्रकाशत्वमुच्यते । तत्सर्वमप्रामा. किं प्रमाविरुद्धं चेत्यलम् । ७. वाच्यत्वम् सर्वेश्वरस्य परब्रह्माभिधानस्य सकलवेदवेद्यस्य सर्वं विशेषमपल त्य तुच्छभित्रत्वमात्राभ्युपगमेन सर्वश्रेयोभाजनमात्मानं मन्यमानः विभूति- मिथ्यात्वनिर्गुणत्वावेद्यत्वकथनानन्तरं वाच्यत्वन्हिवे प्रवतते । सर्वे वेदा