पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः वाच्यत्वम् यत्पदमामनन्ति, वेदैश्च सर्वैरहमेव वेद्यः इत्यादिभिः परस्सहस्रैः श्रुति- स्मृतिवचनैः सर्वत्रेवेद्यत्वं अत एव तत्तत्पद्वाच्यत्वं च बोध्यते । तथा सति किन्नाम कारण येन तस्य अवच्यत्वसाधने संरभन्ते । निर्विशेषत्व- दाढ्यार्थमिति भाति । आहुश्च - दृष्टा गु एक्रियाधातिसम्बन्ध: शब्दहेतवः | नात्मन्यन्यतमो ह्येषां तेनात्मा नाभिधीयते ॥ इति । शब्दवाच्यत्वेऽभ्युपगते वाच्यतावच्छेदकधर्मयोग विना वाच्यत्वा- योगात् वाच्यतावलेनैव सगुगत्वमापद्येत । अतस्तन्निराकरण प्रयत्न इति । तदिदं निर्गुणत्वासि निरूपण सकल कल्याणगुणाकरत्वसाधना- भ्यः मेव व्युदस्तं भवतीति न पृथक् प्रयत्नापेक्षा । तथापि वैशद्याय किञ्चिद् ब्रूमः । ! वाच्यत्वं नाम शक्यत्वम् । तद् ब्रह्मण नास्ति | लक्ष्यत्वं तु अस्त्ये- वेत्याह । तत्रेदं प्रष्टव्यम् | ब्रह्म न वाच्यमित्यत्र ब्रह्मपदं स्वार्थं कया वृत्त्या बोधयति । न कयापि वृत्त्या बांधयतीति चेत् तर्हि धर्मिभानं कथम् ? स्वप्रकाशतया स्वत एवेति चेत् अवेद्यत्वं हि स्वप्रकाशत्वं भव- दभिमतम् । तत्र तस्य स्वतः कथमुपस्थितिः ? स्वरूप मेवोपस्थितिः । तदवाच्यत्वेनान्वेतीति चेत् । न । न ह्यशाब्दं शाब्देनान्वेतीति न्यायात् । अन्यथा गौर्गच्छतीत्युक्ते प्रत्यक्षार्थान्तरान्वयं प्रतीत्य गौस्तिष्ठति, अशो गच्छतीति ग्रहणप्रसङ्गात् । ब्रह्मपदेन आवरणाभिभावकवृत्तौ उत्पन्नायां नाम स्त्रतो भातीति चेत् वृत्तिपरिभाषया पदजन्योर्पास्थितिरियमङ्गीकृता भवति । सेयमावरणाभिभावकवृत्तिः किं ब्रह्मपदेन श्रुतिमात्रेण जन्यते पक्षिरुतेन प्रभातधीरिव, अथवा स्वगतवृत्तिस्मरणद्वारा, गोपदेनेव तद्- र्थोपस्थितिः । नाद्यः। वर्णात्मकवाचकशब्दत्वात् । सङ्केतविशेषानुप- लब्धेश्च । अन्त्ये सा वृत्तिरभिधा लक्षणा वा ? आद्ये कः सः अभिधे- योऽर्थः ? अमिधा नास्ति । अत एवाभिधेयोऽर्थोऽपि नास्ति । लक्षणया