पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ प्टाद्वैतसद्धिः द्वितीयः तु ब्रह्मस्वरूपं बोधयतीति चेत् । अनादिः शब्दशास्त्रसंस्कारवान् वेदा- दिषु सर्वत्र प्रयुक्तः प्रसिद्धश्च ब्रह्मशब्दः । स कथमभिधाशून्यः अभिधे- यशून्यश्च स्यात् । प्रयोगश्च-ब्रह्म तीयमक्षगनुपूर्वी अभिधावती अभिधेयवती वा अनादिवर्णानुपूर्वीत्वात् गवाद्यानुपूर्वीवत्, इति । न चात्र यः कोऽपि दोषः सुवचः। आह च सूत्रकारः ब्रह्मशब्दस्य परमात्मनि मुख्यत्व- मन्यत्र गौणत्वं च ‘परं जैमिनिर्मुख्यत्वात्, 'तत्सामीप्यात्तु तद्वयपदेशः, इति । 'स्याच्चैऋस्य ब्रह्मशब्दवत्' इति च । भ्वाद्यायतनं स्वशब्दादि- व्यस्मिन् सूत्रे च स्वशब्द विवरणावसरे आत्मब्रह्मादयः शब्दाः ब्रह्मणः स्वशब्दत्वेन भवद्भाष्यग्रन्थेषूक्ताः । तस्माद् ब्रह्मादिशब्दवाच्यमेव न्ब्रह्म । अन्यथा अनादिवाचकतया सधुत्वेन प्रसिद्धानां शब्दानां अवाचत्रत्वेनासाधुत्वापादकतया अद्वैतमप्रामाणिकमनादरणीयमित्येव सिद्धयोत् । वाचकत्वेऽपि ब्रह्मणः तत्तद्गुणयोगस्य वक्तव्यतया अद्वैत- मपैत्येवेति चेन् प्रामाणिकगुणादयोगाविरुद्धमेव अद्वैतमास्थेयम् । न तु सर्वक्षोभकारि भवद भिमतं मृषाऽऽद्वैतम् । .

ननु ब्रह्मशब्दो लक्ष्ख्या परतत्त्वं बोधयतीति चेत् अभिधाविरहे कथमभिधेय सम्बन्ध रूपा लक्षणा भवन् ? बाध्यसम्बन्धी लक्षणेति चेत् काममेवम् । तथापि वाक्येऽर्थो बोध्योऽनभिधेयो भव त । पदे तु अभि धेय एव बोध्यः, नत्वतिरिक्तः कश्चित् । तस्मात् ब्रह्मादिपदस्थले अभि धया बोध्यं कञ्चनार्थमुक्त्वैव तत्सम्बन्धरूपया लक्षणया अर्थान्तरं बोधे- यति पदमिति वाच्यम् | तच्च न भवन्मते सम्भवति । लक्षणया केवल- स्वरूपप्रतिपत्तिश्च · नालं भवितुम् । सर्वस्यापि वस्तुनः केर्नाचद्रूपेणैव भाननियमात् । तदिदं अखण्डार्थखण्डन एवोक्तम् । यत्तु यतो वाचो निवर्तन्ते, अशब्दमस्पर्शमित्यादिश्रुतयश्चात्रानु सन्धेयाः, इति तद्विदुषां विनोदाय केवलं कल्पते | हि आद्यस्थले