पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितीयः सत्त्वानन्दत्वादिकमपि हि तथैव समर्थ्यते । तत्र भेदस्य स्वरूपानतिरे- काङ्गीकारेणाद्वैतरक्षणे कः क्लेशः । ब्रह्मणि घटादिभेदो हि प्रतीयते इष्यते च । न च स व्यावहारिकः, तात्त्विकस्तु निषिध्यत इति वाच्यम् । व्यावहारिकत्वे मानाभावात् । न च दृश्यत्वेन मिथ्यात्वात् व्यावहारि- कत्वम् । तात्त्विक इति विशेषणेऽपि दृश्यत्वानपायेन मिथ्यात्वापत्त्या तात्त्विक्रभेदान्तरासिद्धेस्तन्निषेधस्याशक्यत्वात् । किञ्च तात्त्विकस्य प्रपञ्चभेदस्य ब्रह्मणि निषेधे तद्भेदापत्तिः । परस्परविरोधे प्रकारान्त - राभावात् । घटे कल्पितघटान्तरभेदभ्रमस्थले भेद निषेधेऽपि अभेदा- पत्तिर्नास्तीति चेन्न । त्रैषम्यात् । भ्रमस्थलं हि तत् । भ्रमसिद्धस्य भेद- स्येव घटान्तरस्यापि विरहात् न तद्भेदापत्तिः । भ्रमसिद्धमपि घटान्तरं विद्यमानं कृत्वा घटे तद्भद मात्रनिषेधे तत्रानि अत्तरपरिहार्यैव । २१४ किञ्च यदि भेदः स्वरूपं धर्मो वेति विकल्प्य निराक्रियते तर्हि तयैव रीत्या अभेदस्यापि निराकर्तुं शक्यत्वात् अभेदप्रत्ययोऽपि बाधिनविषयः सात् । न चाभेदस्य श्रुत्यनुग्रहो विशेषः । अभेदबांधकश्रुत्यभावस्य प्रागेवोपपादितत्वात् । तस्माद् ब्रह्मणः स्वस्मादभेदो यथा उपपाद्यते तथैव प्रपञ्चद् भेदस्यापि उपपादयितु शक्यत्वात् उपपादनीयत्वात् निराकर्तुमशक्यत्वाच्च भेदनिराकरणं सर्वथा निष्फलमिति स्थितम् । तथापि घटपटभेदादिसाधारण्येन सर्वभेदखण्डनाभिनिवेशः केवलं कलहोद्धरतां प्रकाशयति । न च भेदापहवः शक्यः । तथा हि । वादि- प्रतिव।दिस्थापनाप्रतिस्थापनाभूषगदूषणयुक्तिप्रभृतीनां भेदं गृहीत्व वा बादः प्रवर्त्यते, अगृहीत्वा वा ? आद्ये अभ्युपगतो भेदः। अन्त्ये परपक्षभङ्गः । नापि स्वपक्षविजयः | पक्षभेदाभावात् | वाद एव च निरवकाशः। यत्तु व्यावहारिक भेदाभ्युपगमेन सर्वा व्यवस्था स्थिता । पारमार्थिकं तु भेदं निराकुर्म इति । तत् स्वमताभिनिवेशाधनचित्त- विभ्रमविजम्मितम् । न ह्यस्माभिरेवं द्वौ भेदावभ्युपगतौ, यत एवं