पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितं. मेन निवर्तन्त इति सम्प्रतिपन्नमावयोः । तेन तत्र अबाधिता भेदप्रति पत्तिरस्तीति च । एवं सति व्यवहारदशायामेव भेदं बाधितुम हमानेन भवता व्यवहारव्यवस्था कथमुपपाद्यते । यदि मायया शुक्तिरजतव- द्भेदभानमिष्यते तर्हि तद्वदेव बाधोऽपि भवेत् । न च क्वचिदपि कदाचि- दपि भवति । अथ माया अश्वादिदेव तद्भेदमपि भासयतीत्युच्यते तर्हि अश्वदौ सत्येव अप्रतीतिरितिवत् भेदे सत्येव भेदप्रतीतिरिति इयं प्रमैव भवति । न तु बाधितविषया सती प्रमा। न च तृतीयः प्रकार: कश्विदस्ति । अत एव भेदस्तत्प्रतीतिश्च यदि मायिकी न स्थान सर्वव्यवस्थोल्लङ्घिनी न स्यात् । सर्वत्र्यवस्थोल्लङ्घनी चेयम् । तस्मान्मयिकी । इत्यापादनमयुक्तम् । भेदत्तत्प्रतीत्योर्व्यवस्थोल्लङ्घित्त्रासिद्धेः । यथाप्रतीति व्यवस्थाप्यत्व'त् । प्रतीतिर्हि भगवती वस्तूपगमे नः शरणमिति स्थिते: । व्यवहारदशायामापतन्तीनामप्यनुपपत्तीनां मायिकत्वेन अभ्युपगम्य परिं- हारे भवता वादिनिरसने तदर्थं विपुलग्रन्थकरणे च न प्रवतितव्यम् । परैरुद्भाव्यमानानां दूषणानां सर्वेषामभ्युपगमेऽपि मायामहिम्नैव सिद्धा- न्तसिद्धेरेष्टुं शक्यत्वात् । इन्द्रजालेऽपि व्यवस्थोल्लङ्घनं नैवास्ति । बीजात् सद्यां वृक्षोत्यत्तेः तैलविशेष सेचनरूपकारणाधीनत्वात् । इत्थं सर्व- जनविदितकारणादर्शनेऽपि सर्वत्रैव कारणविशेषस्य सत्त्वात् । अतः उक्तश्रुत्या अस्वव्याघातकयुक्त्या च भेदस्य बाधात अभेद स्याबाधाच्च स्वाभेदस्वभेदयोर्व्यावहारिकत्वे समानेऽपि स्वाभेदं परित्यज्य भेद एव सर्वथा प्रद्वेषो नाकारणकः | इति निगमनं स्वाभ्युपगत केवलद्वेषमात्रमूलकमिति स्पष्टम् । घट- ‘पटाश्वमहिषाद्यभेद्बोधिका या काचिदपि श्रुतिर्नादाहृता । न चास्ति, • सम्भाव्यते वा । अस्वव्याघातकयुक्तिश्च अस्मन्मत एव सुलभा, न तु भवन्मते । भवान् हि भेदसामान्यं नेच्छति । तेन सर्वाभेदः फलति ।