परिच्छेदः भेदप्रत्यक्षम् २१७ तत्र भेदखण्डनयुक्तीनामपि भूषणयुक्त्यभेदेन स्वव्याघातकता दुष्परि हारा | न चाम्मन्मते एवम् । यत्र भेदः प्रतीयते तत्रैव तत्स्थापनात् । अभेदांयत्र प्रतीयते तत्र तदभ्युपगमात् । तेन स्वस्य स्वाभेदोऽपि न सिद्ध यो दिति स्वव्याघातकताया पादयितुमशक्यत्त्रात् । तदेवं प्रमा- णयुक्तिभ्यां भदबावस्यासिद्धे: अकारणक एव भवतां भेदविद्वेषः । अथवा सकारक एव | अद्वैतरागमूलत्वात् । 'कामात् क्रोधोऽभिजायते' इति प्रसिद्धेः । भेदखण्डनयुक्तीनां तत्त्वतो भेद निवारकत्वेऽपि व्यावहारिकभेद- स्थानिराकरणेन स्वाव्याघातकतोपत्तेः । इति प्रथममुक्त्वा पश्चाव्द्यावहारिक भेदनिराकरण एव संरम्भं वहता सुष्ठु तावत् वादकुशलता विस्रम्भणीयता च आविष्कृता । दृढप्रत्यक्ष- सिद्धश्च भेदश्चतुर्मुखेनापि न निराकर्तुं शक्य इति जानातु भवान् | तदिदं प्रत्यक्षप्राचल्योपपाद्नेन अभेदार्थक श्रतिबिरहप्रदर्शनेन च पूर्व- मेवावेदितम् । तदेवं दृढप्रत्यक्षसिद्धत्वाद् बाधकस्यानिरूपरणात् । भवताऽप्यभ्युपेतत्वाद् व्यवहारदशाजुषा ॥ तन्निवसस्य चाद्वैतसिद्धावनुपयोगतः । एप्टव्यः कुवंता दूरे द्वेषं भेदोऽप्यभेदवत् || भेदस्वरूपं तद् षणपरिहारादिकं च सर्व पूर्वाचार्यप्रन्थेष्वेव विशदमित द्रानी तांन्नरूपणे वयं प्रवर्तामहे । ६. भेदप्रत्यक्षम् । नाहं सर्वज्ञः, नाहं निदुःखः, इत्यनुभवात् जीवस्य ब्रह्मभेदः सिद्धयति । अत्र यदुक्तम् - अस्यानुभवस्य अन्तःकरणायवच्छिन्नचै- तन्ये तद्नवच्छिन्नचैतन्यप्रतियोगिक भेदावगाहितया शुद्धचैतन्यधर्मि- कनिदु:खादिप्रतियोगिकभेदावगाहित्वं नास्तीति । तेन जीवेश्वरभेदोऽङ्गी- १५
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति