परिच्छेदः जीवभेदः २२३ द्वैतिनामिदमनुमानं अदुष्टमिति स्थितम् । वयं तु सामान्यमुखीं व्याप्त मत्र आद्रियामहे । यो नियमेन यद्वृत्तिधमांनधिकरणं स ततो भिन्नः, यथा अश्वो महिपान्। नियमेन मैत्रवृत्तिदुःखानुसन्धानरहितश्च चैत्रः । तस्मात् ततो भिन्न इति । उक्तेऽनुमानंऽनुकूलन व्यवस्थातो नानेति महर्षिनूत्रप्रसिद्ध एव यदि भेदां न स्यात् तर्हि मैत्रसुखदुःखादेः चैत्रेण अनुसन्धाना अत्तरिति । अन्यथासिद्धिं वदन् अन्तःकरणभेदाद् व्यवस्थेत्याह । न तु तदुपप- न्नम् । उपाधिभेदेऽपि आत्मन एकत्वान् | आत्मद सत्यपि वैशेषिकादि- मते मन आदिदेन व्यवस्था न शक्या वक्तुमिति सूत्रभाध्ये उक्तम् । तथा सति आत्मैक्ये किं वक्तव्यम् । एकस्य ह्यात्मनः बहु-वन्तःकरणेषु सत्सु तद्धनान् सर्वान् भगान् स एव भुङ्क्त इति प्राप्नाति । तत्र व्यवस्थाया हेतुर्नास्ति । यथा शरीरभेदो वा इन्द्रियभेदां वा न व्यव- स्थाहेतुः तथैवान्तःकरणभेदोऽपि । विशेषाभावात् । अत्राह| "अन्यकर- गभेदे तथा दर्शनेऽपि अन्तःकरणभेदस्य तदैक्याभ्यासापने अनुसन्धा- नप्रयोजकत्वं कल्प्यते । अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वा नुसन्धानापत्तः ।" इति । अत्यन्तशोचनीयत्वमात्मनः प्रथयत्ययम् । भेदाय दर्शितं तर्कमभेदाय प्रदर्शयन || भोगसङ्करो नास्ति । आत्मैप त आत्मानो नानेति. यह भेदवादिनस्तकें प्रदर्शयन्ति । अन्तःकरणस्य करणान्तरंष्वदृष्टं अननु- सन्धानप्रय'जकत्वं कल्प्यम् । अन्यथा सर्वानुसन्धानापत्तेः इति तमेव तर्कमवलम्ब्योक्त्वा आत्मैक्यं रक्षितुमिच्छति । तथा च प्रचलतर्कोप- टब्धेन प्रबलेनानुमानेन आत्मभेदं साधयन्तं प्रवलं वादिनं प्रति किमप्य- न्यद्वक्तुमशक्नुवन् आत्मैक्यं श्रुत्यवगततया व्यपदिश्य यदन्तःकरण - भेदस्य श्रद्धेयमसम्भावनीयं च भोगव्यस्थापकत्वं कल्पयति तयुक्ति-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति