२२४ विशिष्टाद्वैतसिद्धिः द्वितीयः • दारिद्र चोपननां महती दुरवस्त्रां आवेदयतीति सधियां सुगमम् | अश्वम- हिषयोरैक्यं कृत्वा र्याद कश्चन ब्रूयात् चक्षुषोस्तादृशी काचन शक्तिस्ति यया ते कदाचिदश्वत्वेन प्रकाशयतः कदाचिन्महिषत्वेन, सहावस्थाने च पृथक् पृथक् अश्वत्वेन महत्वेन चेति तादृगिदं भवति । यथाऽत्र पृथग्व्यक्तिदर्शनात् विरुद्धधर्मदर्शनाच मिथो भदः कल्प्यते, न तु चक्षुषोः शक्तिविशेषः तथा चैत्र मैत्रयोः पृथग्दर्शनात् परस्परदुःखाद्यना- धारत्वाच्च भेदः कल्पनीयः, न त्वन्तःकरणभेदस्य कश्चन सामर्थ्यविशेषः । असम्भवीच अन्तःकरणस्य व्यवस्थापकत्वम् । न ह्यात्मानमेतच्छि- नत्ति, येन व्यवस्था भवेत् | अविभेदेऽपि सर्वमेतत् समानम् । बन्धमोक्षसामानाधिकरण्याय च आत्म दोऽभ्युपेयः । उपाधिशून्य एव मुक्तः | तस्यैव पूर्वं बद्धत्वं वाच्यम् । अन्यथा अन्यो बद्धः अन्यो मुक्तः इति वैयधिकरण्यापत्तेः । स चोपाधिं विना स्वत एव जीवः सन्नात्मा तादृशबद्धान्तरभोगं न लभत इति आत्मन एव आत्मान्तराद् भेदो वाच्यः । अत्र 'मोक्षस्य शुद्धगतत्वेऽपि दुःखाद्यनुसन्धातृत्वस्य उपहितवृत्तितया शुद्धभेदापादनायोगात्' इत्यनेन न किमपि समाधान- मुक्तं भवति । दुःखाद्यनुसन्धानं निरुपाधिकस्यैवेति कृत्वा हि तस्य भेदं परे आहुः । तत्र 'दुःखाद्यनुसन्धातृत्वस्य उहितवृत्तितया' इति स्वमतस्य सिद्धवत्कारेण किं कृतं भवति । तस्मादात्मभावे उपहृतं बद्धं, शुद्धं मुक्तमिति वैयधिकरण्यं दुष्परिहरमेव | भेदेति य एव पूर्वं बद्धः स एव मुक्त इति सामानाधिकरण्यं भवति । यच्च ‘आत्मेन्द्रियमनायुक्तं भोक्तेत्या हुर्मनीषिणः' इति श्रुतेविशिष्ट भोक्तृत्वात् तस्य भिन्नत्वाद् व्यवस्थेति मतमुक्तं तच्च न साधु । अचेत- नानां भोक्तृत्वायोगात् | उपकरणतयैव ऋत्तरेषां साहित्यवचनान् । यथा दण्डचक्रादिमानेव कुलालो घटस्य कर्तेत्युक्ते नविरिष्म्य कर्तृत्वं तत्रापि । विशिष्टे विशेष्यस्यापि घटकत्वात् तस्य चैकत्वात् अप-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति