पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० विशिष्टाद्वैत सिद्धिः द्वितीयः निरस्तम् । तात्त्विकत्वस्य धर्मविशेषणत्वेन निवंशे प्रतियोग्यप्रसिद्धेः । अनिवेशे कल्पितधर्माधारत्वमादाय असम्भवतादवस्थ्यात् । अपि च जीवावृत्तिधर्मानाधारत्वोचो जीववृत्तिधर्माधारत्वप्रतीतिरपरिहायां । अन्यथा जीवावृत्तित्वोपादानस्य वैयर्थ्यापत्तेः । वायौ नीलरूपं नास्ती- त्यत्राप्येवं द्रष्टव्यम् । रूपसामान्याभावतापर्येण एवमुक्तिरचमत्कारा- यैव । रूपं नास्तीत्यस्यैव पर्याप्तत्वात् नीलरूपमपि नास्त ति वा वक्तव्य- मिति । तदेवं स्वाभिमतमैक्यं अद्वैतिनां निवेक्तुमशक्यमेवेति ज्ञेयम् । १५. अभेदप्रमाणम् | i

अश्र यदुच्यते अस्मन्नैक्यं तत्त्वमसीत्यादिः श्रुतिर्मानमिति, तत्र प्रागेव निरस्तम् | ऐतदात्म्यमिदं सर्वमित्युपक्रम नुरोधेन तत्त्वमसीति सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वेन अभेदपरत्वाभावात् । सा- र्वज्ञ्यासार्वज्ञ्यादिविरुद्धधर्मविशिष्ट योरैक्यस्य अयोग्यत्वाच्च । यत्तु 'सो ऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धयोरैक्यबोधनम्' इति तन्न तथा । दृष्टान्ते वस्तुतो व्यक्त्यैक्यात् । विशेषणान्तर विशिष्टे अविरुद्ध- विशेषणान्तर विशिष्टाभेदस्य बोध्यत्वेन आकविरोधो वा तयागो वा तत्र नास्तीत्युपपादितत्वात् । प्रकृते तु अल्पशक्ति त्वादिना लोकवेदाव- गतस्य जीवस्य सर्वशक्तित्वादिना जीवादन्यत्वेनैव शास्त्रावगतस्य सर्वे- श्वरस्य च व्यक्तितोऽत्यन्तभेदात् तदैक्यमयोग्यत्वान्न प्रमेयम । ननु लक्षितयोरेर्वैक्यं बोध्यं ब्रूमः | लक्षिते च शुद्धे । तस्मान्नायोग्यत्वमिति चेन्न । तत्रापि मानाभावःन् | तत्त्वंपदाभ्यां प्रत्यक्षानुमानश्रुनिप्रमाणैर्भिन्न- व्यक्तित्वेनावघृनयोरुभयोरुपस्थितत्वात् ऐक्यशङ्काऽपि हि नोदेतुं क्षमते | तथा सांत कुतस्त्यं तत्र तात्पर्यम् | एंक्यं नास्ति | कथन्तु सामानाधि- करण्यमिति विमर्शे य आत्मनि तिष्ठन्, ऐतदात्म्यमिदं सर्वं, इत्यादीनां प्रमाणवाक्यानां, सदेव सोम्येदं तत्तेज ऐक्षत इत्यादिप्रयोगविशेषाणां, सर्वे समाप्नोषि ततोऽसि सर्वः इत्याद्युपबृंहणानां च पर्यालोचनया 1