परिच्छेदः अभेदप्रमाणम् २३१ ब्राह्मणोऽहं मनुष्योऽहमितिवत् शरीरात्मभावावीनमिति निश्चयः सुधियां सुलभः। लोके हि स्थाणुर इति बाधे. मुखं चन्द्र इति सादृश्ये, मनुष्योऽहं, नोलो घट इति शरीरात्मभावे अक्सिद्धविशेषणत्वे च, आयुघृतमिति हेतुहेतुमद्भावे च सामानाधिकरण्यं दृश्यते । न च सामा- नाधिकरण्यदर्शनमात्रेण ऐक्यतात्पर्य मेषु गृह्यते स्वरूपमात्रलक्षणा वाऽऽश्रीयते । तत् कस्मान् | भेदस्य पूर्वमववृतत्वादेव । तथैव प्रकृतेऽपि । अन्यैरुक्ताश्च दृष्टान्ता इह समञ्जसाः | परमाणुः सावयव इति प्रमाणं नेष्यते । परमाणुपदेन निरवयवद्रव्यमेवाभिधीयत इति निश्चित त्वान् तद्विरोधेन सावयवत्वं तत्र बोद्धू न शक्यत इति । एवं ईश्वरस्य सर्वज्ञत्वेनावगतत्वात् ईश्वरो न सर्वज्ञ इत्यप्रमाणम् । एवमेव आदित्यो ग्रूप इत्यपि ऐक्यार्थे अप्रमाणम् । कुतः । पूर्वावगमविरोधात् । एवं प्रत्य- क्षविरोधादेव ऐक्यपरत्वाभावे निश्चिते नैरर्थक्य नरिहाराय अर्थान्तरे वक्तव्ये आकाङ्क्षादिवशात सन्निहित विविविपयस्तुतिपरत्वमङ्गीक्रियते । न तु अन्यशेषत्वात् अभेद्परता नास्तीति निर्णयः । प्रत्यक्षबाधेन अभेद- परत्वकोट्य त्यानस्यैव विरहात् । अनेनैव पूर्वप्रमितत्वन्यायेन उत्पन्न - शिष्ट गुणान्तरावरुद्धे कर्मणि गुणान्तरानन्वयः । न तु भवदुक्तेन द्रव्य- सामान्यस्य प्रकारान्तरेणैव लाभात् आमिक्षादिपदस्य द्रव्यसामान्य- परत्वे वैयर्थ्यापत्तिरिति न्यायेन | आमिक्षावाजिनयोर्विकल्पसमुच्चयान्य- संराश्रयणसम्भवेन वैयर्थ्याप्रसक्तेः । अत एव द्रव्यसामान्याक्षेपविरहाच्च । तथा च शास्त्रदीपिका- तस्मादुभयोस्तुल्यबलत्वात् पूर्वस्मिन्नेव कर्मरिण विकल्पः समु- चयो वेति प्राप्तेऽभिधीयते । - श्रमिक्षाया बलीयस्त्वमुत्तौ चोदनाच्छ्रतेः । उत्पन्ने वाजिनं वाक्यात् तेन तदुर्त्रलं मतम् ॥
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति