पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ विशिष्ट द्वेतसिद्धिः द्वियीयः यत्तु सगुणोत्पन्नमपि कर्म स्वरूपमात्रेण निष्कृष्य शक्यं गुणा- न्तरं विधानुमित्युक्तं, तदयुक्तम् । तथापि तस्योत्पत्तिवाक्यात्रग- तस्यानुवादान तत्स्वरूपमालोच्यमानमेव गुणयुक्तमवगम्यते । ततश्च नैराकाङ्क्ष्यायोग्यत्वाच्च गुणान्तरमत्र निवेशमलभमानं आत्मनिवेशनक्षम कर्मान्तरोन्पत्तिं सूचयति । केन- इति । प्रमाणान्तरावगतस्य विशिष्टस्य वस्तुनः अन्यत्र स्वरूपमात्रो- कावपि 'वशिष्टमेवोपस्थित्यारुडं भवतीति वाक्यन्यायविचक्षणा इह प्रचक्षते । भवांस्तु साक्षान् विनरीतमाह 'विशिष्ट स्याभिधाने सत्याप विशेषणं परित्यज्य लक्षणचा स्वरूपमात्रं बांध्यते इति । उत्पत्तिशिष्टगुण- न्यायादिदमयुक्तमिति जानातु भवान् । तच्छन्देन उत तमादेशमप्राच्य इत्यारभ्याधीनसकलविशेन विशिष्टं ब्रह्माभिधीयते । त्वंशब्देन जाग्रत्स्व - प्राद्यवस्थाविशेषविशिष्टां जीवः । एवं पृथग्भूतयोः विरुद्धस्वभावयोरु भयोरुपस्थित्यनन्तरं सामानाधिकरण्येन ऐक्यं प्रतीयते । अस्य यथःश्रुतस्य अयोग्यत्वात् कथं निवाह इति विमर्शो जायते । तत्र परीक्षि- तात्राधितस्वतःप्रमाणभूतपूर्ववृत्तप्रमाणान्तरावघृतभेदाविरोधिना चित्रकारण तन्निर्वाहः कार्य इति न्याय्या सरांगः । एतत्प्रहाणन पूर्व- प्रमितभेदचाधनमन्याय्यम् । अत एव व्यावहारिका भेदः । तात्त्विकम- भेदं तु श्रुतिर्बोधयतीति व्यवस्था अप्रामाणिकी ज्ञया । अभेदे अस- न्दिग्धं प्रमिते इयं व्यवस्थाऽऽद्रियेत । उक्तरीत्या भेदस्य दृढप्रमाण- प्रमतत्वात् तद्विरोधेन विशेषण परित्यागेन स्त्ररूपमात्रलक्षणाया अन्या- य्यत्वात् तत् त्वदात्मेति पूर्व प्रमितभेदाविरुद्धार्थप्रतिपादनसम्भवाव, एवं शरीरात्मभावनिबन्धनतया सामानाधिकरण्यस्यापि मुख्यत्वाच्च नात्र परमात्मजीवात्माभेदपरता युत्ता । अतो व्यावहारिकतात्त्विक भेदोऽपि नास्ति । तस्मात् तत्त्वमसीति वाक्यं न जीवश्वराभेदे प्रमाणमिति सिद्धम् ।