पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 1 ) करणवृत्तिः न क्षमा यस्यकस्यापि ग्रहणं, स्वस्य वा परस्य वा । तत्र कथं अहमर्थावगाहित्वनिमित्तकं अहम्प्रत्ययत्वं तस्या भवेत् । तस्मा- दन्तःकरणं अहम्प्रत्ययीति न घटते । अथान्तःकूरणमात्मनि केऽध्यस्यति ? न तावत्स्वयमेव तत् । अध्या सात्पूर्वमसतस्तस्य अध्यासे कतृत्वानुपपत्तेः । नाप्यात्मा । तस्य निस्सङ्ग- त्वात् । नापि चिदचिद्ग्रन्थिरूपो जीवः । अध्यासनान्तःकरणसिद्धेः प्राक् तदभावात् । प्राक्तनेनाध्यासान्तरेण सद्ध जीवः उत्तराध्यासे कdiत चेत् प्राक्तनोऽध्यास निवर्तते न वा । आद्य प्रतिभासैकशरीरस्य अन्तः करणस्य निवृत्त्या जीवोऽपि निवृत्त इति कथं तस्य उत्तराध्यासे कर्तृत्वं घटेत ? अन्त्ये इत्तराध्यासो नोपपद्यते । युगपत् नानाध्यासासम्भवन् । पूर्वाध्यासस्य अनिवृत्तिरपि दुर्घचा। अध्याससामान्यस्य द्विक्षणमत्र स्थायित्वात् । तस्य स्थिरत्वे युक्तिरजताद्यध्यासान्तराणां अत्यन्तम- सम्भवापत्तेः। एवमत्यन्तमसमञ्जसेयं अध्यासकल्पनेति ज्ञेयम् । अथ यद् भामत्यामुक्तम् तस्मादिदङ्कारास्पदेभ्यः देहेन्द्रियमनोबुद्धिविषयेभ्यः व्यावृत्तः स्फुट तराहमनुभवगम्य आत्मा......। न चहमिति सर्वजननस्फुटतरा नुभवसमर्थित आत्मा देहेन्द्रियादिव्यांतरिक्तः शक्य उपनिषद् सहस्ररप्यन्यथयतुम् अनुभवविरोधात् । न ह्यगमः सहस्रमपि घटं पटयितुमीशते । । इति, तत् तथैव । यत्तु ततः परं ‘तस्मात् अनुभवविरोधात् उपचरितार्था एवोपनिषद् इति युक्तमुप- ११ श्यामः । इति उपनिषदां उदचरितार्थत्वं प्रसज्य ‘न चैतानि उपक्रमपरामर्शापसंहारैः क्रियासमभिहारेण ईदृगात्म