पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अभेप्रमाणम् आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या ।” इति । अत्रेदं वक्तव्यम् । पदयोविशिष्टशक्तिः विशिष्ट मुपस्याप्य विरमति । तत्रान्वयानुपत्तिप्रतिसन्धानानन्तरं पुनर्विशेष्यमात्रोपस्थित्यर्थं पुनः पदव्यापारोऽपेक्ष्यत एव । अन्यथा शाब्दबोधानुपपत्तेः । स च व्यापारः अपेक्षितविशेष्यमात्रोपस्थापकत्वात् विशिष्टोपस्थापकत्र्यापारा- दन्य एव : अन्यश्च लक्षणैव । तथा चाहुः 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणे'ति । गेहे घट इत्यत्र गेहत्ववतो धर्मिणः घटाविकरणत्वस्य उपपन्नतया विरोधप्रतीतिविरहात् लक्षणाया न प्रसङ्गः । नीलो घट इत्यत्र धर्मिणोरभेदः प्रतीयते । एकस्मिन् घटधर्मिणि घटत्वनीलत्वयोः समवा- यात् विरोधो न प्रतीयत इति अत्रापि न लक्षणा | तत्त्वमसीत्यत्र तु तच्छब्देन सर्वज्ञत्वादिविशिष्टस्य त्वंपदेन किञ्चिद्ज्ञत्वादि विशिष्टस्य

  • धर्मिणः प्रतीतौ एकस्मिन् धर्मिणि तयारसम्भवात् विरोधस्फूर्त्या

धर्ममपहाय धर्मिमात्रबोधनाय व्यापारान्तरमपेदयते । तच्चं लक्षणा- रूपमिति दुष्परिहारा लक्षणा । अतः पूर्वोक्तरीत्यैव लक्षणापरिहारः ।

२३५ यदत्र दूषणमुक्तम् –“शरीरिपर्यन्तत्वमिति तल्लक्षकत्वं वा, तत्रापि शक्तत्वं वा, शरीरविषयवृत्त्यैव तत्प्रतिपादकत्वं वा । बाद्यः। मुख्य- त्वानुपपादनात | न द्वितीयः । शरीरवाचिनाभित्यसाधारण्येन निर्देशानु- पपत्तेः | प्रवृत्तिनिमित्तमनुष्यत्वादिजातेः शरीरिण्यवृत्तश्च | न तृतयः | अन्यविषयवृत्तेरन्यानुपयोगेन शरीरशरीरिणोरना। द भ्रमसिद्धाभेनि- बन्धनोऽयं प्रयोगो वाच्यः । तथा चात्राप्य भेद निबन्धन एवायं प्रयोगः । अभेदस्तु बाधकाभावादत्र तात्त्विक इत्येव मिशेषः,” इति । तदनव- काशम् । लक्षकत्वानङ्गीकारात् । मुख्यत्वस्योपपाांदतत्वात् । शरीर- वाचनां देवमनुष्यादिशब्दानामित्यस्मदुक्तौ शरीरवाचिनामित्यत्र शरीरमात्रवाचिनामित्यवधारणाभावात् । शरीरवाचितया सर्वसम्प्रति- पन्नानां न तावन्मात्रवाचित्वं, अपितु शरीरिपयेन्तवाचित्वमित्यभि-