२३६ विशिष्टाद्वैतसिद्धिः द्वितीयः प्रायात् । मनुष्यत्वजातः शरीरिणि विरहस्येष्टत्वान् | मनुष्यत्व जातिम- च्छ्ररीर नति सम्बन्ध्यात्मत्वेनैव वाच्यत्वप्रतिपादनात् । अत एव तृतीय- विकल्पस्यानुत्थानान् । एवमभिज्ञानां व्यवहारस्य शरीरशरीरिभावनि- बन्धनत्वान् ‘वाचिकैः पक्षिमृगतां' इत्यादिस्मरणात् । अतएव अनादि- भ्रमसिद्धाभेदनिबन्धनत्वानुपपत्तेः । भ्रान्तव्यवहारस्यानादरणीयत्वात् । यत्त्वत्र शक्यशरोराभेदेन लक्षणया वा प्रयोगोपपत्तौ अनेकशक्तत्वस्यान्या- य्यत्वमिति ब्रह्मानन्देनोक्तम् तन्न | अनेकशक्त्यनभ्युपगमात् । एकयैव शक्त्या विशिष्टबोधाङ्गीकारात् । केवतशरीरमात्रपरतया प्रयोगस्य आत्मज्ञानमूलत्वात् । जीवमात्र पर्यन्तप्रयोगस्य परमात्माज्ञानमूलत्वात् ।
ननु भोगायतनत्वं शरीरलक्षणम् । तेन परस्य ब्रह्मणः सशरीरत्वं भांगप्रसङ्ग इति चेन्न । यस्य पृथिव शरोरमिति वेदेऽपि शरीरपदयोगद्- र्शनेन उभयसाधारणस्यैव प्रवृत्तिनिमित्तस्य वाच्यत्वात् । न च वैदि प्रयोगो लाक्षणिकः | मानाभावात् । अन्यथा घटपदं स्वगृहस्थनीलघटे शक्तम् । अन्यत्र लाक्षणिकमिति प्रसङ्गात् । उभयसाधारणं च प्रवृत्ति - निमित्तं चेतनं प्रति अपृथसिद्धविशेषण यद् द्रव्यं तत्त्वम् । इष्टं च प्राचामद्वैताचार्याणा प्रपञ्चोपादानस्य जडद्रव्यस्य सर्वेश्वरशरीरत्वम् | यथाऽऽहुः शङ्कराचार्याः सर्ववेदान्तसिद्धान्तसारसङ्ङ्ग्रहे स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः । तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः || ३१२ सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वबृहितमम् ॥ ३१३ इति । मनीषिण आहुरित्यनेन स्वसम्मति समग्रां तत्र दर्शयत्याचार्यः । न च लाक्षणिक एव व्यवहारोऽत्र निर्दिष्ट इति वाच्यम् । मुख्यत्वेऽपि अद्वैतसिद्धान्ताविरोधात् । लाक्षणिकत्वाभ्युपगमनिर्बन्वाभावात् । शरीर- त्वेनैवाध्यस्तत्वस्य सुवचत्वात् । न हि शरीरशरीरिभावसम्बन्धोऽद्वैतेन