पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अभेदमाराम विरुद्धचते | अपि तु तस्य सत्यत्वम | अयुक्तं च लाक्षणिकत्वमित्युक्त - मेव | जगन्मूलकारणस्येश्वरम्य मह विष्णु वाभिवानान् भगवद् द्विषो न शाङ्करमनानुसारिण इत्येतदपि स्पष्टम् । अत्रेदं तत्त्वम् | जीवेश्वरभेदः सर्वाः | तत्त्वमसीत्यत्र तत्पदेन त्वंपदेन च ईश्वरे जीवे च उपस्थिने सामानाधिकरण्यावगतस्याभेदस्य तत्रानन्वयात् सिंहो देवदत्त इत्यादाविव तदन्वयानुगुणः प्रकृत्यर्थः कञ्चन वाच्य इति प्रतीयते । अब कोऽसावर्यो भवतुमर्हतीति विमर्श, ऐतदात्म्बभिदं सर्वं, च आत्मनिनिष्ठन, यो विज्ञान तिष्ठन् इत्यादिभिः परस्य जीवात्मानं प्रत्यप्यात्मत्वोपदेशात, तंन जीवत् परं प्रांत शरीरत्वा- वगनात् शरीरत्व कण्ठाक्तेश्च शरीरवाचिनां शब्दानां शरीरिवाचक- शब्दैः सामानाधिकरण्यस्य अयं पण्डितो देवदत्ती ब्राह्मण इत्यादिषु हृष्टत्वाच्च त्वंशब्दः त्वदात्मपर इनि न्यायानुसारी निर्णयां भवति । सर्वस्य सन् आत्मा | अस्तवापिस एवात्मेत्युक्तं भवति । एवं समञ्जसेऽर्थे सम्भवति 9

सेयरमा उनी डर्थः सर्वथा न युज्यते । तथा हि । पूर्वावगतभेदानुपर्देनैव सिंहो देवदत्त इत्यादौ सामानाधिकरण्यप्रतीताभेदनिर्वाहः सर्वैः शस्त्रकारैः क्रियते । तस्य न्यायस्येह परित्यागे हेतुर्नास्ति । अहं नेश्वर इति प्रत्यक्षेण, अहं नेश्वरः दुःखित्वात् परतन्त्रत्वात् अल्पज्ञवातू इत्यनुमानेन, 'अन्योऽन्तर आत्मानन्दमयः' इत्यादिकया श्रुत्या, 'उत्तमः पुरुषस्तवन्यः' इत्यादिस्मृत्या च जीवेशभेदो हि सुप्रमितः । कथं नाम एतावत्प्रमाण- प्रमितभेद बाधक्षमता तत्त्वम्पदसामानाधिकरण्यप्रतीतस्याभेदस्य भवेत् ? यदि भवेत् सिंहो देवदत्तः ब्राह्मणी विद्वानित्यादिष्वपि भवेत् । किञ्च त्वं तत्तुल्यः तदाधारः तदधीनः इत्येवमादिरीत्या एकपदलक्षण अभेदा- न्वयोपपत्तौ पदवयेऽपि लोकारोऽयुक्तः अखण्डार्थनगसाचस- रोक्ताश्च सर्वे दांषा इहानुसन्धेयाः । एवं प्रत्यक्षानुमानश्रुतिस्मृतिशतात्म- ,