परिच्छेदः च वाक्याधिकरणान्ते भाष्यम्- ‘‘स्थिते न क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमा- त्मेति नाममात्रभेदात् क्षेत्रज्ञाऽयं परमात्मनो भिन्नः, परमात्माऽयं क्षेत्रज्ञाद् भिन्नः इत्येवञ्जातीयक आत्मभेदविषयो निर्बन्धो निरर्थकः |... ये तु निबंन्धं कुर्वन्ति ते वेदान्तार्थं बाधमानाः श्रयं. द्वारं सम्यग्दर्शनमेव बाधन्ते कृतकर्मानित्यं च मोक्षं
अभेदप्रमाणम् २३६ कल्पयन्ति | ज्यायेन च न सङ्गच्छन्ते” इति । अत्र ब्रूमः | न मोक्षस्यानित्यत्वापत्तिः | स्वरूपाविर्भावस्यैव मोक्ष- त्वात् । स्वभावतः अपहतपाप्मत्वादिगुणाष्टकविशिष्टं हि परमात्मन इब जीवस्यापि स्वरूपम् । तत्तु संसारावस्थायां कर्मणा तिरोहितम् । उपासनश्रीतेन परमात्मना प्रतिबन्धके कर्मणि कान निवर्तिते पूर्व तिरोहिता अपहृतपाप्मत्वादयो गुणाः प्रादुर्भूताः सन्तः पुनस्तिरोभाव- प्रसङ्ग रहितास्तथैवावतिष्ठन्त इति कथमनित्यता मोक्षस्य | तस्मान्मोक्षा- नित्यत्वभियाऽपि न वेदान्तविनाशनं कार्य, नापि जगन्निध्यात्वसाधन- व्यग्रतया कुतर्काबलम्ब नमिति । एवं तत्त्वमसीति वाक्यम्य किं जीवेश्वराभेदपरत्वं उत शरीरात्म- भावादिसम्बन्धविशेषपरत्वमिति विप्रतिपत्त्या संशये सति तन्मात्रान्व- यिभिरेव न्यायविशेषैः अभेदपरत्वमसम्भवीत्युक्तम् । दृष्टान्तपरम्परापर्या- लोचनेनाप्येवमेतदति निर्धारणं शक्यमित्यन्ये निरूपयन्ति । तत्राय- माह ~ सर्वे दृष्टान्ता अन्यथोपपद्यन्त इति । तत्रेदं वक्तव्यम् । अन्यथोप- पद्यन्ते न वति नायं प्रश्नः प्रकृतः, येनान्यथोपपद्यन्त इति प्रदर्शनं युक्तं स्यात् । अपितु एषु प्रतीयमानो भेदी नियामको भवति नेति । 'प्रकृ- तिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इति दृष्टान्तानुराधेन हि सन्दिग्धविष- यावधारणं कर्तव्यमाह सूत्रकारः । तत्त्वमसीत्यत्र अर्थविप्रतिपत्तौ यस्य पक्षस्य दृष्टान्ता अनुकूलाः स न्याय्य इति निश्चयो भवति । एवं