पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अभेदप्रमाणम सर्वं. अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा, य आत्मनि तिष्ठन्नात्मनोऽन्तरी यमात्मा न वेद यस्यात्मा शरीरं च आत्मानमन्तरी यमयति. एप सर्वभूतान्तगत्मा अपहृतपाप्मा दिव्यो देव एको नार यः इत्येवमादिनः शास्त्रेण जीवात्म- शरीरकं परमात्मानमवगम्य जीवात्मवाचिनां अहन्त्वमादिश- व्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा ममेव विजानीहि 'मामुपास्ख' इति स्वात्मशरीरकं परमात्मानमेव उपास्यत्वेनो- पदिदेशति । वामदेववत् | यथा वामदेवः परस्य ब्रह्मणः सर्वा- त्मत्वं सर्वस्य च तच्छ्ररीरत्वं शरीग्वाचिनां च शब्दानां शरीरिण पर्यवसानं पश्यन् अहमिति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति- अहं मनुग्भवं सूर्यश्चेति । यथा च प्रह्लादः 'सर्वगत्वादनन्तस्य स एवाहमवस्थिनः' इत्यादि वदति । ' इति । अथ यत् 'अहं भूमिमदामा र्याय' इत्यादिप्रयोगारणामुपहितमादा-- योपपत्तिरिति, तत्रोच्यते । उपहितो वा स्वतः सिद्धो वा जीवस्तावत् तत्र वाच्यः | ब्राह्मणोऽहं मनुष्योऽहमिति व्यवहारे तत्तच्छरीरावच्छिन्नो जीवो वाच्य इत्येतदपि निर्विवादम् । तथा च तेनैव न्यायेन जीवशरीरकः परमात्मापि तद्वाच्य इत्येतदपि समञ्जसमिति | २४१. यत्त, अन्तर्यामिणि भेदाप्रसक्तेर्न तदभेदपरा श्रुतिरिति तत् कामं `तथा | जीवे ब्रह्मभेदस्य तात्त्विकत्वेन तद्भेदस्यायोग्यत्वान् तत्परताऽपि न सम्भवतीति तु ज्ञेयम् । वस्तुतस्तु सर्वभवनफलकवेदनविषयतया अहं ब्रह्मास्मीत्युक्तेः अभेदविधाने नास्ति तात्पर्यमिति बोध्यम् । सर्वभवनं च सर्वैकात्म्यसाक्षात्कार इत्युपनिषद्भाष्ये स्व टम् । किञ्चात्रानुपासना- प्रकरणत्वं भवनिमतं नास्ति । अथ योऽन्यां देवतामुपास्ते' इति उपा- स्तिश्रवणात् । तदनुरोधेन पूर्वोत्तरवाक्योक्तवेदनस्यापि उपासनात्मक-