-२४२ विशिष्टाद्वैतसिद्धिः द्वितीयः ज्ञानपरत्वात् । यत्त वेदनश्रवणानुरोधेन उपास्तिरेव वेदनपर इति, तद - साधु । सामान्यस्य विशेषे उपसंहारस्य न्याय्यत्वात् । विशेषस्य सामा- न्यपरत्वे लक्षणाप्रसङ्गात् । ननु अथ योऽन्यां देवतामुपास्त इत्यादिना भेद निन्दनात् अभेदपरता गम्यत इति चेन्न । “तस्य, देवता गमात्मा न भवति, नाहं तस्याः शरीरमिति मत्वा देवता ममात्मा, अहं तस्याः शरीरमिति मतिं विना वा य उपास्ते स यथावन्नोपास्त इत्येवं निन्दापरत्वात् । 'स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः' इत्यत्राप्यन्तर्या- म्यैक्यमेवापदिश्यते । न तु 'ब्रह्मवाप्नोति परमिति शुद्धस्य ब्रह्मणः प्रकृततया तस्मिन्नुपाधिगतभेदस्य तात्त्विकत्त्वप्रसक्तौ तन्निराकरणार्थ- ‘त्वेन ऐक्योपदेशः | ब्रह्मशब्देन बृहत्त्वबृंहणत्वविशिष्टाभिधानात् । वेदन- कर्मत्वात् प्राप्तिकर्मत्वात् प्राप्तिवेदनकर्तृवैलक्षण्यप्रतीतेः एतेषामुप- लक्षणत्वे प्रमाणाभावाच्च शुद्धप्रकरणाभावात् । शुद्धे प्रतीते च तत्रोपा- विकृतभेदस्य तात्त्विकत्वप्रसक्तिविरहात् । न हि घटाकाशमहाकाश योस्तात्त्विको भेदो लोके दृष्टः, येनेह तच्छङ्का उन्मिषेत्, तलरिहाराय ‘च ऐक्योपदेशोऽपेक्ष्येत । , अतः परं “न चैवं छान्दोग्ये य एष आदित्ये पुरुषो दृश्यते साँऽह- मस्मीत्यत्र स एवैनान् ब्रह्म गमयतीति भेदपरोत्तरवाक्यविरोधः | तस्यो- पासनाप्रकरणस्यत्वेनाहंग्रहोपासनापरतया विरोधाभावात्" इति शङ्का- समावाने अद्वैतसिद्धिग्रन्थे दृश्येते । तत्र स एनान् ब्रह्म गमयतीति छान्दोग्यं चतुर्थाध्याये उपकोसलविद्यायां पठ्यते । तत्र य एष अदि पुरुषः' इति वाक्यं न दृश्यते । तदयं किं केनचित् प्रतितः पाठः अथवा ग्रन्थकृत एव प्रमाद् इति चिन्त्यम् । मुण्डके ब्रह्म वेद ब्रह्मैव भवतीत्यत्र विष्णुरेव भूत्वेतिवत् साम्य- मेवोच्यते. न त्वभेद् इति पूर्वमेवोत्तम् । समाने वृक्ष इत्यस्मिन् अन्य- -मीशं यदा पयत तदा वांतशोको भवतीति भेदज्ञानस्य मोक्षोपायत्व- -2
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति