पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ विशिष्टाद्वैतसिद्धिः द्वितीयः समञ्जसे बोध्यमान अभिनिविष्टैर्भवद्भिर्हठादेव पावनं क्रियत इति तटस्थो विद्वान को न जानीयान् ।

अन्तर्यामिप्रकरणस्थं 'नान्योऽतोस्ति द्रष्टा' इति वाक्यं ऐक्ये प्रमाणमिति नूनं स्वहृदयविसंवादिन्येव प्रतिज्ञा | तथा हि । अस्य वाक्यस्य तावदयमर्थः । अतः एतस्मात् अदृष्टो द्रष्टेत्युक्तो योऽन्तर्यामी तस्मात् अन्यो द्रष्टा नास्तीति । अत्रान्य इति न जीवाभिधानम् । पूर्वत्र यमात्मा न वेदेति र्जवस्या द्रष्टत्वोक्त या इह द्रष्टत्वेन निर्दिश्यमानान्यत्वा- नुपपत्तेः। अन्तर्यामी स्वनियाम्य स्वशरीरभूतैः चेतनः चेतनात्म कैः स वैं- रन्यैरदृष्टः तेषां सर्वेषां द्रष्टेयस्मिन वाक्ये उच्यते । तत्र अदृष्ट इत्यचं 'यं पृथिवी न वेद्' इत्या दभिः पूर्ववाक्यैः फलित एवार्थः। 'अन्तरों यमर्याति' इत्यनेन फलितश्च 'द्रष्टा' इत्ययमर्थः । एवं पृथिव्यादिभिरदृष्टः तेषां द्रष्टा चान्तर्यामीत्युक्ते यथा पृथिव्यादीनामथमन्तर्यामी अस्ति श्रयं च तैरदृष्टः तेषा द्रष्टा च तथा किमस्यान्तर्यामिणोऽपि कश्चि दन्योऽन्तर्याम्यस्ति, यः अनेनादृष्टः अस्य द्रष्टा च, इति शङ्का जायते । तस्याः परिहारः नान्योऽतोऽस्ति द्रष्टेत्यनेन क्रियते । अतः अद्रष्टृत्वेन पूर्वोत्तस्य जीवस्येह द्रष्टृत्वेन नुः अन्य इति स न विवक्षितुं शक्यः | अन्य इत्यनेन समानमतर ये नेनेत्यत्रेव पूर्वोक्त सहशस्यैव विव- क्षितत्वात् अदृष्टृत्वादिना च सादृश्यात् न जीवविवक्षा सम्भवतीति ज्ञेयम् । पूर्वंय आत्मनिन्दिना पृथिव्यादीनामिव मनप अन्तर्यामिभेदस्योर्पाद्ष्टत्वाचन तन्निषेव इद्द सम्भवतीति च बोध्यम् न चौपाधिक भेदमात्रेण तदुपपत्तिः । औपाधिकत्वे मानाभावात् । एतद्- नुरोधेन ऐक्यं क्वापि न प्रमेयमत्यवधारणात् । एवं च अतोऽन्यदार्त- मित्यस्य जीवजातं दुःखीत्यर्थ उपपद्यते 1 एतेनाक्षरप्रकरणस्थं ‘नान्योऽतोऽस्ति द्रष्ट' इत्येतदपि नैक्यपरमिति