( 17 )
R तत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शणापि उपचरिता थनि कतुम् । ' इति तदसम्भवः प्रतिपाद्यते, तदयुक्तम् । असंसारिणं सर्वेश्वरं परमा- त्मानं प्रतिपादयन्ति श्रुतिस्मृतीतिहासपुराणानि हि तत्पराणि सन्ति मुख्यार्थान्येव । अहमनुभवस्तु प्रादेशिकं अनेकविधशोकदुःखोपप्लुत- मात्मानं आदर्शयन् जीवात्मतत्त्वगोचरः अस्मिन् जीवात्मतत्त्वे प्रमाणं भवति । तत्र विरोध एव नास्ति । कुतस्तन्मूतोपचरितार्थत्वप्रसङ्गः । अहमनुभवसिद्धविविधदुःखभाजनजीबारमातिरिक्तः परमात्मा नास्तीति यदि प्रत्यक्षप्रमाणबलेन साध्येत तदा हि तथा साधयतः श्रुत्यादीनसु पचरितार्थत्वं वक्तव्यमापतेत् । निरसनीयं च सिद्धांन्तनां भवेत् । न च प्रत्यक्षेण ईश्वरभावः साधयितुं केनापि शक्यते । अतीन्द्रियत्वात् ईश्वरतत्वस्य । प्रत्यक्षेण तदभावेन वा ईश्वराभावस्य साधनायोगात् । ननु अहमनुभवसिद्धस्य जीवरमनः श्रुत्या ईश्वरभेदो बोध्यते । तत्रास्ति विरोध इति चेन्न । स्वस्वप्रमाणेन असंसारिण ईश्वरस्य संसारिणे जीवस्य च परस्परविरुद्धधर्मवत्तया भिन्नतयैव सिद्धत्वेन सिंहो देवदत्त इतिवत् अभेदबोधकत्वासम्भवात् । नन्वेवं अभेदबोधकश्रुतीनां उप चरितार्थत्वमेवोक्तं भवति । न च तद्युक्तमिति चेन्न । भवन्मते प्रत्यक्षा दीनामतात्विकप्रमाणभावस्य भेदभृतीनाममुख्यार्थपरस्त्वस्य च कल्पनीय वेन तदपेक्षया न्यायसिद्धस्य औपचारिकत्वस्यादोषत्वात् । औपचारि त्वमङ्गीकृत्येदमुक्कम् । वस्तुतस्तु तन्नास्तीति सूपपादितमन्यत्र । प्रत्यक्षादेः तात्त्विकं प्रामाण्यं नास्ति, किन्तु सव्यवहारकमेवते अप्रामाणिकी कल्पना । न ह्यत्र अद्वैतरक्षणाभिनिवेशं विना हेत्वन्तरमस्ति । अबाधित व्यवहारानुगुण्यापादकत्वमेव हि. सांब्यवहारिकत्वम् । तात्त्विकथमपि तदैव । कोऽनयोर्भेदः। यदपि ‘वणं हस्वदीर्घत्वादयोऽयधर्मा अपि समारोपिताः तत्