पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अभेदप्रमाणम् २४७ हि भयं परमार्थदर्शनरहित। विद्यादशाया मेवेति चेन्न । “इयमविद्यादशा । इतोऽन्या परमार्थदर्शनदशाऽपराऽस्ती”ति गमकस्यात्र अत्यन्तमविद्य- मानत्वात् । परमार्थत्वेन गृहीतस्य एकात्विस्य तद्धेतुकभयस्य च तथैवानुवादात् । किञ्च एका कित्वं यदि अविद्याशास्थं असहायत्वरूपं तर्हि द्वितीयाद्वै भयं भवतीत्युक्तं द्वितीयत्वमपि तादृशमेव चोरसरीसृपा- दिनिष्ठम् । तथा हि । सोऽबिभेदिति असहायत्वप्रयुक्तं भयं पूवमुक्तम् । तस्मा- देकाकी बिभेतीति लोकप्रसिद्धभयनिदर्शनात् । तदनन्तरं “काममहम- सहायः । तथाऽपि कुतो मया भेतव्यम् । चारसरीसृपसिंहव्याघ्रादिकल्पाः केचनानिष्टकारिणः सन्ति चेत् तैः पीडासम्भवात् अहो बत निस्सहायो- ऽस्मीति भीतिर्युक्ता । त एव तु न सन्ति | मदन्यस्य यस्य कस्याप्य- भावात् । अतो मदनिष्टकारी कोऽपि नास्ति । तेन स मां पीडयिष्यतीति भयस्य नावकाशः । तथा सति एकाक्यस्मीति कुतो मया भेतव्यम्" इति पर्यालोच्य स तद्भयान्मुक्त इत्युक्त्वा तद्युक्तमेवेत्याह श्रुतिः “कस्माद्धि अभेष्यत् । द्वितीयाद्वै भयं भवतीति । द्वितीये सति तस्मा- दुनिष्ट मापतेदिति भयं युक्तम् । तदेव तु नास्ति । अतस्तत्र प्रातिकूल्यस्य तद्धीनानिष्टोषनिपातस्य च प्रसक्तिविरहात् एवं विवेकनस्तस्य भय- निवृत्तियुत्तेति भावः । इत्थं पूर्वेण सङ्गतार्थत्वात् अत्राप्यद्वैतगन्धोऽपि नास्ति । यदि तु द्वितीयाद्वै भयं भवतीत्यस्य परमार्थदर्शना भावप्रयुक्तभय- परत्वं स्यात् तदा 'तत एवास्य भयं वीयाय' इत्येतत् तादृशभयापगमपर- मेव स्यात् । तदेकवाक्यत्वात् । तेन तस्य परमार्थ दर्शनं सम्पन्नमिति स्यात् । तत्तू नोपपद्यते । 'सबै नैव रेमे' इत्यनुपदं तस्यारतिवचनात् । 'स द्वितीयमैच्छत्' इति रिरंसावचनाञ्च । तदिह द्वितीयाद्भयश्रवणमा- त्रेण अद्वैतवर्णनसंरम्भो भवतामचमत्कारायैव कल्पते ।