विशिष्टाद्वेतसिद्धिः द्वितीयः अश्रुतनिंगूढं तात्पर्यमाचार्या वदन्ति - भगवान् यज्जगत् सृजति • तत्र तस्य स्वानिष्टपरिहारादिकं नोद्देश्यम् । न हि स कश्चिदस्ति, यस्तस्यानिष्ट किचित् ऋतु मीष्टे | न च तस्यावात समस्तकामस्य अन- वाप्तमवाप्तव्य किञ्चिदस्ति, यज्जगत्सृष्टिप्रया सेन ईप्सेत् । केवलं दयचैत्र प्रवर्तते । दया नाम स्वाथंनैरपेक्ष्येण परहितप्रावण्यम् | भगवत इग्रन- • पारा प्रलयावस्था वस्थितचेतनविषया दया । तदिदं अचि विशिष्टान् प्रलये तु जन्तूनवलोक्य जातनिर्वेदा । २४५ करणकलेबरयोगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ इत्याचार्यचरणानुगृहीतदयाशतकश्लोक स्पष्टम् । अत्राक्तं भयं साक्षात् प्रथमसृष्टचतुमु` खनिष्ठम् । तद्वारा तु भगवति । 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यादिषूक्तं सृष्टे: प्राक् ब्रह्मण एकत्वं द्रढयितु केवले कल्पनामात्रसद्धाविमौ भयतद्पगमौ उपन्यस्ताविति तु साधायः | 'एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति' इत्यत्र भेद् - निन्दयाऽप्यभेदसिद्धिरित्यपि न । एतस्मिन् अल्मपि भेद कुरुते चेन् तदा भयं भवतीत्युक्ते देशविशेषावच्छेदेन कालविशेषावच्छेदेन वा तत्स्वरूपस्वभावयोर्भेददर्शने सत्यनर्थो भवतीति स्वरसतो लभ्यते । प्रकृतौ स्वरूपस्वभावभेदो बहुधा भवति । जीवे स्वभावभेदः । तथा कश्चन भेदः अन्यथाभावः ब्रह्मणि नास्तीति तदुभयविलक्षण मेतत् । एवं सति तयोरिवास्यापि कश्चन भेदोऽस्तीति यो मन्येत तस्य यथावस्थित ब्रह्मज्ञानविरहात् संसारानुवृत्तिभयं भवतीति भावः । यद्यप्चेतस्मिन्निति सप्तमोश्रवरण तू भेदं प्रति प्रतियोगित्वमस्य न • प्रतीयते, तथापि वैमृधन्यानेन उपवेषन्यायेन च उपस्थितत्वात् एतस्यैव - तत्त्वमङ्गीकृत्य स्वस्मिन् स्वभेदाप्रसक्त या तन्निषेधायोगात् उक्तरीत्या
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति