विशिष्टाद्वैत सिद्धिः द्वितीयः यावन्मोहमित्युक्तेः । देहात्माभिमानो मोहः । तद्धीनं विषयप्रावण्यं यावत् तावदित्यर्थ: । अतो यः स्वाभाविको व्यक्तिभेदः यश्च अणुत्व- महत्वपारतन्त्र्यस्वातन्त्र्यादिरूपो भेदः, तदनिवृत्तावपि न विरोधः + जीवस्य परस्य च ततः परं न भेदोऽस्तीत्युक्ते जीवो नश्यतीत्ययमर्यो न युक्तो वक्तुम् । तयोर्विद्यमानो भेदो नश्यत | जीवः परेण परमं साम्य- मुपैंतीत्ययमर्थो हि समञ्जसः । सर्वप्रमाणसामञ्जस्यापादकत्वात् । चैप- रीत्यात्तु अर्थान्तरं हेयम् । २५० 'क्षेत्रज्ञ' चापि मांविद्धां'त्यत्रापि न जीवपरमात्मनोरभेद उपदिश्यते । 'न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।' इत्युपक्रम एव जीवेश्वरयोः जीवानां मिथश्च भेदस्योक्तत्वात् । “वरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् || " इति प्रकृतिवदेव जीवस्यापि विभूतित्वेनाभिधानात् । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । ' इत्यन्यत्वस्य कण्ठत एवोक्तत्वाच्च । इदमन्यत्वमेव पञ्चदशाध्यायार्थः 1 यथोक्तं यायुनाचार्यैः- "अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः । व्यापनाद् भरणात् स्वाम्यादन्यः पञ्चदशोदितः ॥” इति । न च सामानाधिकरण्यं स्वरूपाभेदपरमेव । 'रसोऽहम'सु', 'अहं ऋतुरहं यज्ञः' 'आदित्यानामहं विष्णुः इति विभूतिपरत्वस्यैवेद्र निरूढत्वात् । अतः ऐक्ये किमपि प्रमाणवाक्यं न प्रदर्शयितुं शक्य- मिति सिद्धम् । मतिविभ्रममात्रोत्यमद्वैतं त्रातुमुत्सुकैः । बहुभिर्बहुधाऽप्युक्तं याति सैकतसेतुताम् ॥
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति